________________
आह्निकम् २] मीमांसकसम्मतोपमानस्वरूपनिरास:
387 गवा सदृश एष कश्चन प्राणी' इति। न त्वनेन सदृशो गौरिति ज्ञानमभिधानं वा कस्य चिदम्तीति। अतः प्रमितेरेवाभावात् किं प्रमाणचिन्तया? ____ भवतु वैषा बुद्धिः--'अनेन सदृशो गौः'. इति; तथाऽपि स्मृतित्वान्न प्रमाणफलम् ॥
[मीमांसकसम्मतमुपमानं स्मरणरूपमेव] 'ननु'! गोपिण्डमात्रे सत्यं स्मृतिरेवैषा। संप्रत्यवगतगवयसादृश्यविशिष्टत्वं तु तस्य पूर्वमनुपलब्धमधुनैव गम्यते इति न तस्मिन्नेषा स्मृतिः-मैवम् -- गवयसादृश्यस्यापि तत्र पूर्व ग्रहणात् ॥
ननु ! अनवगतगवयेन. गवि गवयसादृश्यमवगतमिति 'चित्रम् - न चित्रम् - व्यक्तितिरस्कृतस्य ग्रहणात् ॥
ननु ! इदमपि चित्रतरम् । गृहीतं च व्यक्तितिरस्कृतं चेति । व्यक्तिर्हि ग्रहणमेव, तत्तिरस्कारे च नास्त्येव ग्रहणम्- उच्यते--.. ___ गोपिण्डमात्रे-विशेष्यांशमात्रे । तथोक्तं वार्तिके-'प्रत्यनेणावबुद्धेऽपि सादृश्ये गवि च स्मृते। विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता' इति । पूर्व ग्रहणादिति । 'प्रत्यक्षेणावबुद्धेऽपि सादृश्ये' इति वदता सादृश्यग्रहणमङ्गीकृतमेवेति भावः ॥
ननु गवयगतं गोसादृश्यं प्रत्यक्षमित्युक्तम् । गोगतं गवयसादृश्य तु उपमानविषय इत्याह-नन्विति । व्यक्तीति । तद्व्यक्त्या तिरस्कृतस्येत्यर्थः । अयं भाव: -- सादृश्यं नाम भूयोऽवयवसामान्ययोग इति भवन्मतं, तभिन्नत्वे सति तद्गतभूयोधर्मवत्त्वमित्यस्माकम्। उभयथापि वस्तुग्रहणकाले स्वरूपतः सादृश्यं गृहीतमेव । परन्तु तद्हणस्य व्यक्तिविश्रान्तत्वेन सादृश्य प्रत्ययो न जायते । सादृश्यप्रतीतिर्हि प्रतियोगिग्रहणसापेक्षा। एवं तदा सादृश्यप्रतीत्यभावात् सादृश्यं व्यक्तितिरस्कृतमित्युच्यते। यथा तमसः तेजोऽभावरूपत्वेऽपि तेजोरूपप्रतियोग्युपस्थित्यपेक्षयाऽभावरूपः प्रकाशते, नान्यथेत्युच्यते, तथा प्रकृतेऽपि गृहीतमपि सादृश्यं प्रतियोग्युपस्थित्यपेक्षया तथा व्यवहियते। अन्यदा तु स्वरूपत इति सादृश्यमपि पूर्व गृहीतमेवेति ॥
नन्वत्र-ख.
'चित्रम्-ख.
25*