________________
386
[ न्यायमञ्जरी
"
नापि गोगतम् असिद्धत्वात् प्रतिज्ञार्थैकदेशत्वाच्च । विषागाववयवजातमपि न गोगतं लिङ्गम्; इदानीं वनस्थस्य तद्ग्रहणाभावात् । अगृहीतस्य च लिङ्गत्वानुपपत्तेः । गवयगतमपि तदलिङ्गमेव पूर्वचदपक्षधर्मत्वात् । तस्माद्भवयसादृश्यविशेषितनगरगत परोक्षगोपिण्डज्ञानं काननवर्तिनः प्रमातुः प्रमाणान्तरं भवतीति अभ्युपगन्तव्यम् ॥
÷
उपमानपरीक्षा
[मीमांसकसम्मतोपमानपरिशीलनम् ]
तदिदमनुपपन्नम् एवंविधप्रतीत्यभावात् ॥ प्रसिद्धेन हि सादृश्यं अप्रसिद्धस्य गम्यते । गवा गवयपिण्डस्य, न तु युक्तो विपर्ययः ॥ २९ ॥ तथा हि---अश्रुतातिदेशको नागरकः कानने परिभ्रमेन पूर्व गोर्श प्राणिनमुपलभमान एवं बुद्धयते ; ब्रवीति च - 'अहो नु
T
न तु गवीत्यर्थः । असिद्धत्वात् - उपमानात्पूर्वमिति शेषः । कथमसिद्धत्वं, asardarata सादृश्यस्य सिद्धत्वादित्यवाह - प्रतिज्ञति । गौः - पुरोवृत्तिपिण्डशा -- एतन्निरूपित्तसादृश्यवत्त्वादित्युक्ते, सादृश्यस्य भूयोऽवयवसामान्ययोगरूपस्य सिद्धत्वेsपि गवयनिरूपित्तत्वस्यासिद्धत्वेन हेतुत्वं न संभवतीति । प्रतिज्ञायैकदेशत्वादिति बहुव्रीहिगर्भः । ननु तर्हि विशेषणं त्यक्ता विषाणादिभूयोऽ-. वयव सामान्यवत्वमेव हेतुरस्तु । पुरोवर्तिनि पिण्डे दृष्टे नगरस्थे गवि विषाणाद्यaratमरणे च जाते हि सादृश्यप्रतीतिरनुभवसिद्धा । न च विषाणाद्यवयवेषु गक्ययावयवसारूप्यप्रतीतिमन्तरा कथं गवये सादृश्यधीजनकत्वं भूयोवयव
ज्ञानस्वेति वाच्यम् - सत्यमस्त्यवयवेषु सारूप्यबुद्धि: । नैतत्साध्यम्, अवयविगतं हि तत् साध्यम् । तथा च गवयवावयवसदृशावयववत्त्वाद्गवयवसादृश्यमनुमीयत इति न कापि हानिरित्यत्राह - विषाणादीति । तद्ग्रहणाभावात्वनस्थस्य खलु गौ: परोक्षः । उपमानस्य स्वार्थत्वेन परार्थानुमानरूपत्वं तु न संभवत्येवेत्यत्र शेषः ॥
गवयपिण्डस्य गवा सादृश्यं लोके प्रसिद्धम् । न तु गवयेन सादृश्यं गोरिति विपर्ययों न युक्तः । श्रुतातिदेशवाक्यस्य 'कश्चन प्राणी' इत्यनिर्धारितविशेष: प्रत्ययो न भवति, किन्तु 'गवयोऽयं ' इत्येवेत्यतः - अश्रुतेत्यादि ॥.
1 अप्रसि-ख.