________________
'आह्निकम् २] उपमानस्यानुमानवैलक्षण्यमू
385 गवयसादृश्यम्। अत एव न तज्ज्ञानं प्रत्यक्षजन्यम् ; परोक्षगोपिण्डविषयत्वात्। अश्रुतातिदेशवाक्यस्य भावान शाब्दम् ॥
न च स्मरणमेवेदं प्रमेयाधिक्यसंभवात् । गवयेन हि सादृश्यं न पूर्वमवधारितम् ॥ २७ ॥ भूयोऽवयवसामान्ययोगो यद्यपि मन्मते। . सादृश्यं, तस्य तु ज्ञप्तिः गृही ते प्रतियोगिने ॥ २८ ॥
[उपमानं नानुमानम्] न चानुमानिकमिदं ज्ञानम् ; अनपेक्षितपक्षादिधर्मकस्य भावात् । न च गवयगतं सारूप्यं तत्र लिङ्गम् , अपक्षधर्मत्वात् । सादृश्येन विशेषितम् । प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम्' इति । अन न्यायरत्नाकर:-'यस्मादेव प्रत्यक्षे गवये न किञ्चिदुपमानस्य प्रमेयमस्ति, तस्मात्स्मर्यमाणैव गौर्गवयसादृश्यविशिष्टा, तद्विशिष्टं वा सादृश्यं उपमानस्य प्रमेयम्' इति! तथा च गोसदृशो गवय इति ज्ञानं उपमानं सिद्धान्ते । मीमांसकमते तु गवयसदृशो गौरिति ज्ञानमिति बोध्यम् । 'अत एव' इत्यस्यैव प्रपञ्च:-परोक्षेत्यादि । भावात्-उत्पत्तेः॥ .
प्रमेयाधिक्यमेवाह-गवयेनेति। गवयनिरूपितसादृश्यविशिष्टगोरेव स्मरणम् । तत्र गवयस्य पूर्वमदृष्टत्वेन तत्सादृश्यविशिष्टत्वेनापूर्वत्वं वर्तत एव । तथोक्तं 'विशिष्टस्यान्यतोऽसिद्धरुपमानप्रमाणता' इति । ननु कथं पूर्व सादृश्याज्ञानम् ? भवन्मते हि सादृश्यं 'भूयोऽवयवसामान्ययोगः' (श्लो. वा. उप. 18)। तञ्च गोः प्रत्यक्षकाले गृहीतमेवेत्यत्राह --भूय इत्यादि । तस्येति। तादृशावयवसन्निवेश: गृहीत एव पूर्व, अथापि सादृश्यस्य सप्रतियोगिकत्वेन गवयापरिज्ञाने गवयसादृश्यं कथमिव गृहीतं स्यादित्यर्थः ॥
... बौद्धाः पुन: उपमानमनुमानेऽन्तर्भावयन्ति । तदेतन्मतं वार्तिककार:'न चैतस्यानुमानत्वं पक्षधर्माद्यसंभवात्' इत्यादिना निराचकार। तदेतदनुवदति-न चेति । यद्यपि उपमानस्यातिरिक्तत्वं पूर्वमेव प्रसाधितम् । अथापि प्रकारभेदसत्त्वात्पुनरप्याह-अनपेक्षितेत्यादि। पक्षधर्मताज्ञानादिरहितस्येति यावत् । अपक्षधर्मत्वादिति। गवयगतं हि सादृश्यं गवये स्यात् ,
। एता-ख. स्या-ख. NYAYAMANJARI
25