________________
384
पमान परीक्षा
[ उपमानप्रमाणप्रयोजनम् ]
सत्यमेवम् । उपमानमपि क्वचित् गवयालम्भादिचोदनार्थानुष्टाने सोपयोगम् | अनवगतगवयस्वरूपे तदालम्भाभावात् । यथा मुस्तम्भः तथा मुद्गपर्णीति मुद्रपर्ण्याद्यौषधिपरिज्ञानेऽपि तदुपयोगि भवति ॥
[भ्यायमधारी
सर्वानुग्रहबुद्वधा च करुणार्द्रमतिर्मुनिः । मोक्षोपयोगाभावेऽपि तस्य लक्षणमुक्तवान् ॥ २६ ॥
ननु ! एवं सति यागौषधाद्युपयोगि अन्यदपि बहुपदेष्टव्यं स्यात्--न- प्रमाणशास्त्रत्वादस्य; प्रमाणमेवार्थपरिच्छित्तिसाधन मिहोपदिश्यते । तच्चतुर्विधमेव, न न्यूनम् अधिकं वेति निर्णीतम् । प्रमेयं तु मोक्षाङ्गमेवोपदिश्यत इत्यलं प्रसङ्गेन ॥
[मीमांसकसम्मतोपमान स्वरूपम् ]
जैमिनीयास्त्वन्यथोपमान स्वरूपं वर्णयन्ति - 'यद' श्रुतातिदेशवाक्यस्य वने गवयपिण्डदर्शनानन्तरं नगरं गतं गोपिण्डमनुस्मरत एतेन सदृशो गौरिति ज्ञानं तदुपमानम् । तस्य विषयः 'संप्रत्यवगम्यमान गवयसादृश्यविशिष्टः परोक्षो गौः, तद्वति वा
भाष्यसूचितं प्रयोजनमाह-यथा मुद्ग इति । मोक्षोपयोगाभावेऽ-पीति । साक्षादिति शेषः । अत एवानुपदं यागौषधादि इत्याशङ्कासंगतिः ॥ एवं सति साक्षात् मोक्षोपयोगाभावेऽप्युपदेशे । प्रमेयं त्विति । तथा चास्ति व्यवहारः न्यायशास्त्रं प्रमाणशास्त्रम्, वैशेषिकं प्रमेयशास्त्रम्' इति अत एवानयोः समानतन्त्रत्वम् ॥
*
ܕ
जैमिनीया इति । अत्रेदं शावर भाष्यं - उपमानमपि सादृश्यं असमि कृष्टेऽर्थे बुद्धिमुत्पादयति, यथा गवयदर्शन गोस्मरणस्य ' इति । अश्रुतातिदेशवाक्यस्य अश्रुतातिदेशवाक्यस्यापि । अत एवेत्थं वार्तिकं श्रुतातिदेशवाक्यत्वं न चातीवोपयुज्यते । येऽपि श्रुतद्वाक्याः तेषामेव भवत्ययम् । प्रत्यक्षष्टगोत्वानां वने गवयदर्शिनाम्' इति । अतश्च अतिदेशवाक्यं न नियतमित्यर्थः । एतेनेत्यादि -- तथा च वार्तिकं । तस्माद्यस्मर्यते तत्स्यात्
1 यदा-- ख.