________________
आह्निकम् २] उपमानप्रयोजनकथनम्
383 अत्यन्तप्रायसाधर्म्यविकल्पादिनिबन्धनः ।
क्षिप्तः सूत्र'कृता' साक्षादुपमानस्य विप्लवः ॥ २४ ॥ येन सदृशप्रतीतिजन्यते तत्सादृश्य मिति किमत्यन्तसादृश्यादिविकल्पैः॥
[सामान्यमेव न सादृश्यम् । अभिन्नप्रत्यये हेतुर्यथा सामान्यमुच्यते । सदृशप्रत्यये हेतुः तथा सादृश्यमुच्यते ॥ २५ ॥
[उपमानप्रमाणप्रयोजनाक्षेप:] . ननु ! उपमानलक्षणमस्मिन् मोक्षशास्त्रे कोपयुज्यते ? आगमा तावत आत्मज्ञानं मोक्षसाधनं सेतिकर्तव्यताकमवगम्यते, अनुमानादागमप्रामाण्यनिश्चयः, प्रत्यक्षादनुमानस्य व्याप्तिपरिच्छेद इति त्रयमेवोपदेष्टव्यम् ॥
अधिकं सूत्रभाष्ययोर्व्यक्तमित्याह-अत्यन्तेति । अत्र भादिना एकदेशसाधर्म्य विकल्पपरिग्रहः। तथा च सूत्रं 'अत्यन्तप्रायैकदेशसाधादुपमानासिद्धिः' इति । अत्र भाष्यम्-'अत्यन्तसाधादुपमानं न सिध्यति, न चैवं भवति--यथा गौरेवं गौरिति । प्रायसाधादुपमानं न सिध्यति, न हि भवति यथाऽनडानेवं महिष इति। एकदेशसाधादुपमानं न सिध्यतिन हि सर्वेण सर्वमुपमीयते, यत्किञ्चित्साधर्म्यस्य सर्वत्र सत्त्वात् ' इति । अतश्च साधयं निर्वस्तुमशक्यमिति भावः । अत्र प्रतिवक्ति-'प्रसिद्धसाधादुपमानसिद्धेः यथोक्तदोषानुपपत्तिः' इति । भाष्यम्- ' न साधर्म्यस्य कृत्स्नप्रायाल्पभावमाश्रित्योपमानं प्रवर्तते। किं तर्हि ? प्रसिद्धसाधर्म्यात साध्यसाधनभावमाश्रित्य प्रवर्तते। यत्र चैतदस्ति, न तत्रोपमान प्रतिषेद्धं शक्यम् । तस्माद्यथोक्तदोषो नोपपद्यत इति' इति । तथा च साधयॆयत्तायां लोक एव प्रमाणमिति भावः ॥ - सामान्यमेव न सादृश्यम् , विजातीययोरपि मुखचन्द्रयोस्सादृश्यदर्शनात्। न च तत्रान्ततो दव्यत्वादिकमेव सामान्यमस्तीति शंक्यम , मुखघटयो स्सादृश्यादर्शनादित्याह-अभिनेति । भिन्नयोरिति शेषः सदृशेति । न हि सादृश्यप्रतीतिस्थले समानजातिमत्त्वनिर्बन्ध इत्यर्थः ॥
तत्सदृश-ख.