________________
382
उपमानपरीक्षा
(न्यायमचरी
[सूत्रार्थवर्णनम्] प्रसिद्धसाधादिति कर्मधारयः, तृतीयासमासः, बहुव्रीहिर्वा। प्रसिद्धं च तत् साधर्म्य, प्रसिद्धन गवा वा साधर्म्य गवयस्य, प्रसिद्ध वा साधर्म्य यस्य सः प्रसिद्धसाधो गवयः-तस्मात् प्रसिद्धसाधात् साध्यसाधनमुपमानम्। साध्यः-'संज्ञासंज्ञि'सम्बन्धः, तस्य साधनं बोधनम् ; संज्ञासंज्ञिसम्बन्धज्ञानं वा साध्यं, तस्य साधनं जननमित्यर्थः । एवं प्रसिद्धसाधर्म्यज्ञानमुपमानं, फलं संज्ञासंझिसम्बन्धज्ञानमित्युक्तं भवति ॥
साध्यसाधनशब्देन करणस्य प्रमाणताम् ।
ब्रवीति, एतच्च मन्तव्यं सर्वत्र परिभाषितम् ॥२३॥ अत एव मध्ये लिखितमिदं -यदुभयतः प्रमाणलक्षणानि व्याप्स्यतीति ॥
कर्मधारय इति । भाष्ये तृतीयासमासः प्रदर्शितः, वार्तिके बहुव्रीहिः। वार्तिके तृतीयासमासस्यानिषेधात् सोऽपीष्ट एव वार्तिककृत इति टीका। एवं समासद्वयेन साकं स्वामिमतः कर्मधारयोऽपि क्रोडीकृतः। साध्य इति । साध्यपदस्य संज्ञासंज्ञिसम्बन्धपरत्वे वस्य साधनं-बोधनम् ; संज्ञासंजिसम्बन्धज्ञानपरत्वे तस्य साधनं-जननमित्यर्थः ॥
पदान्तरं विहाय साध्यसाधनपदप्रयोगफलमाह--साध्यति । साधकतम हि करणमिति भावः। ननु तर्हि इतरप्रमाणलक्षणसूत्रेष्वेवमनिर्देशात् तेषां प्रमाणत्वं न स्यादिति शङ्कायां इदं पदं इतरसूत्रेष्वपि सम्बध्यत इति महर्षिणो मतमित्याह --एतच्चति। कथमिदमवगम्यत इत्यत्राह --- अत एवेति । चतुर्यु प्रमाणेषु मध्यगतमनुमानं, उपमानं च । अनुमानस्य प्रमाणत्वे शाक्यानां न विप्रतिपत्तिरिति उपमानसूत्रे तत्पदं निवेशितम्। तच्च देहलीदीपन्यायेन पूर्वोत्तरत: सम्बध्यत इति भावः ॥
। संज्ञि-ख.