________________
बाडिकन् २] उपमानस्य प्रत्यक्षानुमानाभ्यां वैलक्षण्यम् 381 संशिसम्बन्धबोधविधानादुपमानमुच्यते। यथा च तत्र पूर्वावगतधूमाग्निप्रतिबन्धस्मरणं सहकारितामुपैति, तथेहापि पूर्वश्रुतारण्यकवाक्यार्थस्मरणम्। यथा च तत्र व्याप्तिवेलायामनालीढविशेषा बुद्धिरधुना पक्षधर्मतावलाद्विशेषे व्यवतिष्ठते --अत्राग्नि रेति, तथाऽत्राप्यनवगतवाच्यविशेषात् वाक्यात् बुद्धिरिदानी वाच्यविशेषे दृष्टे निरुपप्लया जायते-अयं स गवयशब्दाभिधेय इति ॥ .
[उपमानस्यानुमानाद्वैलक्षण्यम्] नैतावताऽनुमानमेवेदमित्याशङ्कनीयम्; अनपेक्षित पक्षधर्मा'न्वयव्यतिरेकादिसामग्रीकस्य तत्प्रत्ययोत्पादात् ॥
' तस्मादयं स गवयो नामेत्येवंविधा मतिः ।
उपमानैकजन्यैव, न प्रमाणान्तरोद्भवा ॥२२॥ . न चैषा नास्ति, सन्दिग्धा, बाध्यते, कल्पनामात्रं वेति । सर्वथैतस्याः प्रमितेः साधनमुम्मानं प्रमाणनिति सिद्धम् ॥ - तदिदमाह, प्रसिद्धसाधात् साध्यसाधनमुपमानम् ॥
एवं सर्वात्मनाऽनुमानसाम्ये तद्यनुमानमेवेदमिति 'प्रत्यक्षेणाप्रत्यक्षसिद्धेः' इत्यादिसूत्रोक्तामाशङ्कामुपक्षिपति-नैतावतेति। 'नाप्रत्यक्षे गवये प्रमाणार्थमुपमानस्य पश्यामः' इतिसूत्रोक्तं सिद्धान्तमाह--पक्षेत्यादि। पक्षधर्मताज्ञानं, अन्वयन्यतिरेकन्याप्तिज्ञानं चेत्यर्थः । उक्तं भट्टपादैरपि न चैतस्यानुमानत्वं पक्षधर्माद्यसंभवात्' इति । उक्तसूत्रस्य चायमर्थः---उपमानस्य प्रमाणार्थ --- प्रमाणप्रयोजनं संज्ञासंज्ञिसम्बन्धपरिच्छेदरूपं अप्रत्यक्षे गवये न पश्याम इति । एवज पक्षधर्मताज्ञानाभाव उक्तो भवति ॥
ननु वाक्यश्रवणकाले गवयस्याप्रत्यक्षत्वेऽपि गवयदर्शनकाले पक्षधर्मताज्ञानं भवेदिति चेत्-तत्रोक्तं -ज्याप्तिज्ञानाभावादिति। न हि तदानीं लिङ्गप्रत्यक्षमस्तीति भावः ॥
धर्मा-ख.