________________
380 उपमानपरीक्षा
न्यायमचरी प्रत्यक्षपूर्वकं तस्मात् संज्ञाकर्मेति गीयते । कचित्तदेव प्रत्यक्षं स्मृतिद्वारेण कारणम् ॥ १९ ॥ पूर्वदृष्टे कुरङ्गादी सम्बन्धो दर्शितो यथा।
चत्रे प्रत्यक्षवत् सिद्धिः दन्तुरादिविशेषणैः ॥ २० ॥ इह पुनरतिदेशवचनसमये गोमादृश्यमात्रोप'देश्ये' सत्यपि संक्षिनि न निवर्तत एवोपप्लवः, प्रमाणान्तरपरिच्छेदसापेक्षकसंज्ञिरूपोपदेशात ॥
[उपमानस्य प्रत्यक्ष द्वैलक्षण्यम्] यत्र गोसादृश्यं पश्यसीति प्रत्यक्षादेव तहस उप'प्लयो विरंस्यतीति चेत्-न-प्रत्यक्षम्येन्द्रिय सन्निकर्षादिस्वभावस्य संज्ञासंज्ञिसम्बन्धबोधकरणासमर्थत्वात् ॥
प्रत्यक्षफलमेतन समर्थ, सत्यमिष्यते।
तस्यैव च वयं चूम उपमानप्रमाणताम् । २१ । यथा प्रत्यक्षफलमपि धरणिधरकुहरंभुवि धूमदर्शनान'न्द्रियविषय विभाव'सुबोधसाधनत्वादनुमानम् , एवं गोसारूप्य-. विशेषितविपिनगतगवयपिण्डदर्शनमध्यक्षफलमपि तदनयगतसंज्ञा अतः प्रत्यक्षपूर्वक एव सर्वत्र निरुपप्लवः सम्बन्धनिर्णयः। प्रत्यक्षा मितिपूर्वकत्वात् न प्रत्यक्षत्वम्। प्रत्यक्षपूर्वकं ह्यनुमानादि न हि प्रत्यक्षम् । अतः प्रत्यक्षागमाभ्यां विलक्षणमुपमानम् ॥
प्रकृते उक्तस्थलद्वयवैलक्षण्यमाह-इहेति । . गोसादृश्येत्यादि । गोसादृश्यमानं उपदेश्यं यस्य तावन्मात्रपरिज्ञेये पनि वस्तुनीत्यर्थः ॥
पश्यतीति - एतदर्थकत्वात् अतिदेशवाक्यस्येत्यर्थः ।।
ननु यद्यपि इन्द्रियसन्निकर्षादिरूपं प्रत्यक्षं न सम्बन्धबोधने समर्थ, अथापि तत्फलभूतं (तजन्य) यत् सादृश्यदर्शनं-सादृश्य विशिष्टपिण्डदर्शन वा तत् संज्ञाकरणसमर्थ-- उपप्लवनिराकरणसमर्थ---भविष्यतीति शङ्कने--प्रत्यक्षेति । प्रत्यक्षफलं त्वित्यन्वयः । तत्रेष्टापत्तिमाह - सत्यमिति। विशिष्टमेकं वाक्य वा। सत्यमित्यर्धाङ्गीकारे। साध्यमंशमाह - तस्यवे त ॥
सर्वाशे अनुमानं दृष्टान्तयन् अतिरिक्तप्रमाणतामुपमानस्याह-यथेत्यादिना । तदनवगतेति। उक्तपिण्डदर्शनानवगतेत्यर्थः ॥
'देशे-ख. उप-ख. 'न्द्रिय -स्व. 'सुबोध-क.