________________
आह्निकम् २] बौद्धांताक्षेपसमाधानम्
379 - [उक्ताक्षेपसमाधानम् , उपमानस्य शब्दातिरिक्तत्वं च]
अत्राहुः-नाटविकरटि'तात्। वाक्यात् विस्पष्टः संज्ञासंशिसम्बन्धप्रत्ययो भवितुमर्हति, संज्ञिनस्तदानीमप्रत्यक्षत्वात् । यद्यपि गोसारूप्यविशिष्टतया तदवगम उपपादितः; तथाऽपि सोपल वेव भवति तदानीं बुद्धिः ॥
न निराकाङ्क्षताबुद्धिस्तदानीमुपजायते । तदुत्पादनपर्यन्तः शब्दव्यापार इष्यते ॥ १५ ॥ न चासौ निर्वहत्यत्र वाच्यसंवित्त्यपेक्षणात् । शब्देन तदनिर्वाहात् न स्वकार्य कृतं भवेत् ॥ १६ ॥ सम्बन्धप्रतिपत्तिश्च सामान्ये 'यद्यपीष्यते । तदप्यविदितव्यक्ति न सम्यगवधारितम् ॥ २७ ॥ गवयाकारवृत्तिश्च तदानीं बुद्धयुपप्लवः ।
सम्बन्धेऽपि द्यधिष्ठाने दधाति श्यामलां धियम् ॥ १८ ॥ आटविकः -आरण्यकः। विस्पष्टः--निरुपप्लवः। उपपादित:--- भारण्यकवाक्यादिति शेषः ॥
निराकाङ्क्षतेति । वाक्यजन्यजाने निराकाङ्क्षताबुद्धिर्न जायत इत्यर्थः । तदुत्पादनं-निराकाङ्क्षताबुद्धयत्पादनम् । श्यामलां-सकलां, सोपलवामिति यावत् ॥
अयमत्र प्रघट्टकार्थः--आरण्यकवाक्यात सामान्यतः अर्थप्रतिपत्तावपि भाकारविषयकजिज्ञासायाः सत्त्वात् निराकाङ्क्षः प्रत्ययो न भवेत्। गवयदर्शनानन्तरं जायते च सः। स च न शब्दकरणकः, शब्दव्यापारः खलु पूर्व मेवोपरतः । नैन्द्रियिकः, गवयस्यैन्द्रियिकत्वेऽपि सम्बन्धनिर्णयस्यानेन्द्रियिकत्वात् । भादौ सामान्यत: शक्तिप्रदेऽपि न स निरुपप्लवः । सामान्यस्याकारव्यङ्गयत्वेन आकारजिज्ञासायां सत्यां तदभिव्यङ्गयसामान्यस्यापि स्पष्टं प्रतीत्यसंभवात्। सामान्यस्यास्पष्टत्वेन च द्विनिष्ठः संज्ञासंजिसम्बन्धोऽप्यस्पष्ट एव स्यात् । अत: गवयप्रत्यक्षानन्तरमेव निरुपप्लव: सम्बन्धनिर्णयः शक्यः ।
त-ख.
वेव-ख.
यदि वेष्यते-ख.