________________
378
उपमानपरीक्षा
न्यायमभरी
स तु प्रत्यक्षतो वाऽस्तु, प्रमाणान्तरतोऽपि वा। स्मर्य'माणेऽपि चार्थे 'ऽस्ति सङ्केतकरणं क्वचित् ॥ ८ ॥ योऽसौ तत्र त्वया दृष्टः प्राणी स रुरुरुच्यते । क्वचित्तु कैश्चिनिर्दिश्य परोक्षमुपलक्षणैः ॥९॥ संझिनं व्यहारः तत्र संज्ञां नियुञ्जते । दन्तुरो रोमशः श्यामो वामनः पृथुलोचनः ॥ १० ॥ यस्तत्र चिपिटग्रीवस्तं चैत्रमवधारयः । एवमत्रापि गोपिण्डसारूप्येणोपलक्षिते ॥ ११ ॥ वाच्ये वाचकसम्बन्धबोधनं नैव दुर्घटम् । अथ सोपप्लवा वाक्यात् बुद्धिरित्यभिधीयते ॥ १२ ॥ उपप्लवोऽपि सम्बन्धे न कश्चिदनुभूयते। यस्त्वस्ति गवयाकारं प्रति कीदृगसाविति ॥ १३ ॥ सोऽपि प्रत्यक्षतो दृष्टे गवये विनिवर्तते।' प्रत्यक्षागमसिद्धेऽर्थे तस्मान्मानान्तरेण किम् ? ॥ १४ ॥
पूर्व गृहीतस्यैव दृढीकरणमिति यावत् । किं बहुना ? प्रमाणकोव्यप्रविष्टया स्मृत्याऽपि सम्बन्धदृढीकरणं दृश्यत इत्याह-स्मर्यमाणोऽपीति । रुरु:कृष्णसारमृगः । उच्यते इत्यनन्तरं 'इत्यादौ' इति शेषः । एवं 'अवधारयेः' इत्यनन्तरमपि । सर्वथाऽदृष्टचरेऽपि सम्बन्धनिर्णयो युज्यत एवेत्याहक्वचिदिति । दन्तुरः-उन्नतदन्तः । चिपिटग्रीवः-नतनासाविशिष्टग्रीवः । भारण्यकवाक्यात् सोपप्लवा बुद्धिः, उपमानात्तु निरुपप्लवा भवतीत्येतदपि न युक्तमित्याह-अथेति । यस्त्विति । मारण्यकवाक्यश्रवणात् जातेऽपि संज्ञासंज्ञिनिर्णये गवयाकारं प्रति य उपप्लव:-'कीदृगसौ स्यात्' इत्युपप्लवोऽस्ति, सः न सम्बन्धविषयकः। किन्तु विस्मयहेतुकदर्शनौत्सुक्यमूलकः। तच्चौत्सुक्यं गवयदर्शने निवर्तते। अतोऽत्र उपमानस्यातिरिक्तस्यावसर एव नास्तीत्यर्थः ॥
माणोऽपि चार्थो-ख.
ते का-स्त्र.