________________
मासिकम् २] बौद्धोकोषमाननिरासानुवादः
377 संज्ञासंझिनोश्च परिच्छेदे सति तत्सम्बन्धः सुशको भवति नान्यथा। अत एव प्रत्यक्षपूर्वकं संशाकर्मत्याचक्षते ॥
(उपमानविषये दिङ्नागादिबौद्धानामाक्षेप:] एतदाक्षिति -
ननु! नागरकप्रश्नमनुरुध्य वनेचरः। ब्रूते ऽतिदेशक वाक्यं यथा गौर्गवयस्तथा ॥४॥ अस्यायमर्थः, यस्य त्वं गोसादृश्यं निरीक्षसे। तमेव गवयं विद्याः स चायं संशिनो ग्रहः ॥ ५॥ सम्पन्धकरणं चेह विशेषेषु न युज्यते । आनन्त्यात् , किन्तु सामान्ये, तश्वत्थमवधारितम् ॥ ६ ॥ प्रत्यक्षपूर्वकं संज्ञाकमेति न हि वैदिकी । चोदना, किं त्यवच्छेदः संझिनोऽत्र विवक्षितः॥ ७ ॥
___ननु वनेचरभाषणकाले संज्ञिनो गवय स्याप्रत्यक्षत्वेऽपि गवयपदगवययोः संज्ञासंज्ञिपरिज्ञानं कुतो न भवति ? अतीन्द्रियार्थविषयकशब्दप्रयोगः शान्दबोधश्च सर्वानुभवसिद्धः। अत: उपमाननमागेन किं फलं साधनीयमवशिष्यते ? इत्याशङ्कायामाह -- संज्ञेत्यादि। परिच्छेदे - प्रत्यक्षतः परिच्छेदे। एतत्तत्वं तु उत्तरत्र (359) पुटे) व्यक्तीभविष्यति। आचक्षतेतथा च वाचस्पतिमिश्राः-यावदयमसो गयय इति साक्षात्प्रतीते सम्बन्धिनि संज्ञां न निवेशयति तावदयं परिप्लतमति: माता कश्चित् खलु द्रक्ष्यामि तारशं पिण्डं, यत्र गवय संज्ञा प्रतिपत्स्ये' इति प्रमोत्सुक एवोदीक्षते' इति । ___ प्रमाणसमुच्चये दिङ्नागोतं अनुवदति---त दाक्षिरतीति । अस्यवनेचरवाश्यस्य । स चायमिति। तथा चाप्तवाक्यस्यापि शक्तिग्राहकत्वात् सिद्धः शक्तिग्रहः। शक्तिरेव च सम्बन्धः। अत उपमानस्य कृत्यमेव नाम्तीत्यर्थ । ननु वनेचरेण सामान्यतः कथनेऽपि गवयविशेष सम्बन्धग्रहण गवयदर्शनकाल एवानुभवपिढे, तदेतदुपमानफलमिति चेत, तत्राहसम्बन्धकरणमिति। विशेषेषु व्यक्तिषुः आनन्त्यात्-व्यक्तीनामिति शेषः । इत्थं-'यस्य गोसादृश्यं निरीक्षसे त्वं तमेव गवय विद्याः' इत्यर्थकारयकवाझ्यात् । वैदिकी चोदना इत्यन्वयः। अवच्छेद:--अवधारणं,