________________
376
रूपमानपरीक्षा
[उपमानस्वरूपे वार्तिकपक्षः ]
अद्यतनास्तु व्याचक्षते - श्रुतातिदेशवाक्यस्य प्रमातुर ' प्रसिद्धे' पिण्डे प्रसिद्धपिण्डसारूप्यज्ञानमिन्द्रियजं संज्ञासंज्ञिसम्बन्धतिपत्तिफलमुपमानम् । तद्धीन्द्रियजनितमपि धूमज्ञानमिव तदगोचरप्रमेयप्रमिति साधनात् प्रमाणान्तरम । श्रुतातिदेशवाक्यो हि नागरकः कानने परिभ्रमन् गोसदृशं प्राणितमवगच्छति । ततो वनेचरपुरुषकथितं यथा गौस्तथा गवयः' इतिवचनमनुस्मरति ; स्मृत्वा च प्रतिपद्यते -' अयं गवयशब्दवाच्यः' इति । तदेतत्संज्ञासंज्ञिसम्बन्ध ज्ञानं तज्जन्य' मित्युपमानफलमित्युच्यते ॥
·
[ न्यायमञ्चरी
प्रत्यक्षं तावदे तस्मिन् विषये न कृतश्रमम । वनस्थगवयाकारपरिच्छेदफलं हि तत् ॥ १ ॥ अनुमानं पुनर्नात्र शङ्कामप्यधिरोहति । क लिङ्गलिङ्गिसम्बन्धः ? क संज्ञासंज्ञिता मतिः ॥ २ ॥ आगमादपि तत्सिद्धिः न वनेचरभाषितात् । तत्काल संज्ञिनों नास्ति गवयस्य हि दर्शनम् ॥ ३ ॥
न्यायवार्तिके तट्टीकायां चोक्तं भट्टानूदितपक्षमुपक्षिपति - अद्यतनास्त्विति । अतिदेशवाक्यार्थ स्मरणमकृतं पुरोवर्तिनि गवये यत्सादृश्यप्रत्यक्ष तदुपमानमित्यर्थः । ननु तर्हि तत् सादृश्यदर्शन प्रमाणफलं, न तु प्रमाणं, इन्द्रियजन्यत्व दित्यत्राह - तद्धीति । तद्गोचरेति । धूमज्ञानाविषये त्यर्थः । तथा च धूमप्रत्यक्षं स्वविषयापेक्षया फलरूपमपि स्वाविषयवह्निप्रतिपत्तौ यथा प्रमाणं तथा प्रकृते ऽपीत्युक्तं भवति ॥
अस्मिन् पक्षे – ' प्रत्यक्षो गवयस्तावत् सादृश्यस्मृतिरत्र तु' इत्यनेन भट्टपादोक्तं बौद्धोक्तं च दूषणं प्रत्याह- प्रत्यक्षमिति । न हि वयप्रमिति फलं वदामः । वनस्थगत्रयप्रमितिस्तु प्रत्यक्षरूपा । संज्ञासंज्ञिसम्बन्ध परिच्छेदफलं तूपमानमुच्यते । अतो नेदं प्रत्यक्षमित्यर्थः । तत्-प्रत्यक्षम् । वनेचरभाषितात आगमादित्यन्वयः । तत्कालं वनेचरभाषणकाले । संशिनो गवयस्येत्यन्वयः ॥
1 सिद्धे - ख.
2 ज्ञानजन्य--क.
अवैतम् - ख.