________________
आह्निकम् २] उपमानस्य शम्दातिरिक्तत्वम्
375 तदर्थप्रतीतेः। यत्र तु पुरुषः प्रतीत्युपायमपरमुपदिशति, तत्र तत एवोपायात्तदर्थावधारणम् । उपायमात्रावगमे तु शब्दव्यापारः॥
यथा परार्थानुमाने-अग्निमानयं पर्वतः, धूमवत्त्वात् महानसवदिति। अत्र हि न पुरुषोपदेशविश्वासादेव शैलस्य कृशानुमत्तां प्रतिपत्ता निमित्तान्तरनिरपेक्षः प्रतिपद्यते ; अपि तु तदवबोधकधूमाख्यलिङ्गसामथ्यादेव। तदिह यद्याटविको नागरिकाय गवयार्थिने तदवगमोपायं प्रसिद्धसाधर्म्य नाभ्यधास्यत् , तर्हि तदुपदेश आगम एवान्तरभविष्यत् । तदुपदेशात्त तत एव तदर्थावगम इति सत्यपि शब्दस्वभावत्वे प्रमाणान्तरमेवेदम् । प्रतिपत्ताऽपि नागरिको नारण्यकवाक्यादेव तं प्राणिनं गवयशब्दवाच्यतया बुद्धयते; किन्तु सारूप्यं प्रसिद्धन गवा तस्य पश्यति ॥ ___किमारण्यकवाक्येन न संप्रत्ययो नागरकस्य-न मो न संप्रत्यय इति ; किन्तु सारूप्यमुपायान्तरं तदवगतावसावुपदिष्टवानिति ततोऽवगतिर्भवन्ती न निहोतुं शक्यत इति न शाब्दी सा प्रतीतिः, अपि त्वौपमानिकीति वचनमपि भवदिदमुपमानं प्रमाणान्तरमिति युक्तम्। भाष्याक्षराण्यपि चैतत्पक्षसाक्ष्यच्छायामिव वदन्ति लक्ष्यन्ते। तानि तु ग्रन्थगौरवभयान योज्यन्ते-इत्यलं प्रसङ्गेन ॥
निमित्तान्तरं-परामर्शादिकम् । नाभ्यधास्यत्, किन्तु विना सादृश्योपदेशं 'अयं गवयपदवाच्यः' इत्यभ्यधास्यत्- इति शेषः ॥
'नारण्यकवाक्यादेव' इत्युक्तं शृण्वन् पृच्छति--किमित्यादि । तदेवगतौ-संज्ञासंज्ञिसम्बन्धावगतौ-- गवयावगतौ वा। ततः-सारूप्य रूपादुपायान्तरात् शब्दविलक्षणात। वदन्तीव लक्ष्यन्ते इत्यन्वयः । यथा गौरेवं गवयः इत्युपमाने प्रयुक्त' इत्यादिभाष्यमत्र द्रष्टव्यम् ॥
अयं च भाष्यकारपक्ष: कुमारिलै:-'कीदृग्गवय इत्येवं पृष्टो नागरिकैर्यदि । ब्रवीत्यारण्यको वाक्यं यथा गौर्गवयस्तथा। एतस्मिन्नुपमानत्वं प्रसिद्धम् ' (श्लो. वा. 1-1-5 उप. 1) इत्यत्रोपपादितः। अनुपदमुच्यमानः वार्तिकपक्षस्तु-'श्रुतातिदेशवाक्यानामारण्ये गवये मतिः। या सोपमान केषाञ्चित गोसादृश्यानुरञ्जिता' (6) इत्यत्रोक्तः ॥