________________
374 उपमानपरीक्षा
। न्यायमञ्जरी ___ . अत्र वृद्धनैयायिकास्तावदेवमुपमानस्वरूपमाचक्षते-संशासंशिसम्बन्धप्रतीतिफलं प्रसिद्धतरयोः सारूप्यप्रतिपादकमतिदेशवाक्यमेवोपमानम् । गवयार्थी हि नागरिकोऽनवगतगवयस्वरूपस्तदभिज्ञमारण्यकं पृच्छति 'कीहक् गवयः? ' इति। स तमाह 'यादृशो गौस्तादृशो गवयः' इति । तदेतद्वाक्यमप्रसिद्धस्य 'प्रसिद्धन गवा सादृश्यमभिदधत्तद्वारकमप्रसिद्धस्य गवय'संशाभिधेयत्वं ज्ञापयतीत्युपमानमुच्यते ॥
[उपमानस्य शब्दप्रमाणातिरिक्तत्वम् | ननु ! शब्दस्वभावत्वादस्य 'आप्तोपदेशः शब्दः' इत्यनेन गतार्थत्वान्नेदं प्रमाणान्तरं भवेत् । न च संज्ञासंशिसम्बन्धपरिच्छेदफलत्वेन प्रमाणान्तरता वक्तव्या; फलवैविध्येण प्रमाणानन्त्यप्रसङ्गात् । लौकिकानि हि वचनानि वैदिकानि च विधिनिषेधबोध-. कानि नानाफलान्यपि भवन्ति, न शब्द तामतिकामन्ति --
उच्यते-यत्र शब्दप्रत्ययादेव, · तत्प्रणेतृपुरुषप्रत्ययादेव वा अर्थतथात्वमुपायान्तरानपेक्षमवगम्यते, स आगम एव ; 'तत एवं
. वृद्धनैयायिकाः-भाष्यकाराः। प्रसिद्धतरयो:-प्रसिद्धस्य गो:, अप्रसिद्धस्य गवयस्य च। तद्दारकं- सादृश्यज्ञानोत्पादनद्वारेत्यर्थः ॥
'तद्वारक' इत्यनेन सूचितमर्थमजानाना: 'तस्यागमाबहिर्भावात्' (श्लो.वा.उप.२.) इत्याहुः । तदलकरोति-नन्विति । अस्य -अर्थबोधनस्य । प्रमाणानन्त्यप्रसङ्गमेवोपपादयति - लौकिकानीति। हानोपादानादिनानाफलकानि खलु वाक्यानि। अत: फलभेदान प्रमाणभेदः ॥
उच्यत इत्यादि। सत्यं अतिदेशवाक्यस्मरणात या सादृश्यप्रतीतिः स शाब्दः। उपमितिस्तु तदुत्तरोद्भवा तादृशसादृश्यविशिष्टगवयपिण्डविषयिणी प्रतीतिः । गवयपिण्डस्याननुभूतत्वात् नेयं स्मृतिः। तद्विषये शब्दस्याव्यापृते: न शाब्दी। शब्द: खलु सादृश्योद्बोधनमात्रे विश्राम्यति । अत: इयं प्रमितिरतिरिक्तवेति प्रमाणमप्यतिरिक्तमेवेति सारम् । शब्दप्रत्ययादिति स्वत:प्रामाण्यपक्षे । तत्प्रणेतृपुरुषप्रत्ययादिति स्वपक्षे। प्रणेता .. उच्चारयिता॥ .
1गवय-क.
2 तत:-ख.