SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ आहिकम् २) सपमानलक्षणम् 373 भवति च। तथा च चिरमपि शीघ्रीभवति, शीघ्रमपि चिरीभवति । तस्मात्तद्भदोऽप्यौपाधिक इति सिद्धम् ॥ , समानतन्त्रे दिक्कालौ वैतत्यन विचिन्तितौ ।। तन्नेह लिख्यते, लोके द्वेष्या हि बहुभाषिणः ॥ ·८२ ॥ सिद्धः कालश्चाक्षुषो लैङ्गिको वा तन्नानात्वं सिद्धौपाधिकं च । तस्माद्युक्तं निश्चिकाय त्रिकालप्राहीत्येवं सूत्रकारोऽनुमानम् ॥ २८३ ॥ इत्यनुमानपरीक्षा __अथोपमानम् [उपमानलक्षणम् ] अनुमानानन्तरमुपमानं विभागसूत्रे पठित मिति तत्क्रमेण तस्य लक्षणमुच्यतेप्रसिद्ध साधात् साध्यसाधनमुपमानम् ॥ १-१-६॥ चिरमिति। चतुरपुरुषस्य गमन क्रियापेक्षया मन्द क्रियायाश्विरत्वेऽपि इयं मन्दतरपुरुषक्रियापेक्षया शीघ्रा भवतीति चिरत्वशीघ्रत्वादि वा भतीतानागतत्वादि वा न प्रतिनियतमिति दिक्कालावेकैकावेव ॥ समानतन्त्रे-वैशेषिकदर्शने ॥ .. विभागसत्र इति । तत्र वा उपमानस्य शब्दात्प्रथम निर्देशे किं बीजमिति चेत् --- अत्र केचित्-सूचीकटाइन्यायेन अल्पग्रन्थत्वादुपमानस्य प्राथम्यम् । न च तावता प्रत्यक्षापेक्षयाऽपि प्रथम निर्देशापत्तिशङ्कासंभवः; प्रत्यक्षानुमानयो: सर्वप्रमाणमूर्धन्यत्वात् , बहुवादिसम्मतत्वाच्च न तत्र क्रमे विवादः इति वदन्ति । वस्तुतस्तु प्रत्यक्षानुमानयोर्यथोपजीव्योपजीवकभावः क्रमनियामकः स एव प्रत्यक्षोपमानयोः, शब्दोपमानयोरपि । उपमानं हि शक्तिग्राहक प्रमाणम् , न हि शक्ति ज्ञानमन्तग शाब्दबोधसंभवः । अतः शन्दारपूर्व तनिर्देश: । एवं उपमानप्रवृत्तेः सादृश्यदर्शनादिमूलकत्वात् प्रत्यक्षानुमानोपजीवकत्वमप्यस्तीति बदनन्तरं उपमाननिर्देश: ॥
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy