________________
372
[ न्यायमश्वरी
दिश: अतिरिक्त स्वसमर्थनम्
आस्कन्दनदलत्कुन्दकलिकोत्करदन्तुराः । वदन्ति शिशिरं वाताः तुषारकणकर्कशाः ॥ २८० ॥ तस्मादेकोऽव्ययं कालः क्रिया भेदाद्विभिद्यते । एतेन सदृशन्यायात् मन्तव्या दिक् समर्थिता ॥ २८९ ॥
[[दिशो ऽतिरिक्तत्वम् ]
पूर्वपश्चिमादिप्रत्ययानां केवलवृक्षादिप्रत्ययवैलक्षण्येन कारणान्तरानुमानात् । दिग्लिङ्गावशेषादेकत्वेऽपि दिशो दशविधाः । प्रदक्षणावर्त परिवर्तमानमार्तण्डमण्डलमरीचिनिचयचुम्न्यमानकाञ्चः नाचलकटक संयोगोपाधिकृतः पूर्वपश्चिमादिभेदः कल्यते - पूर्वा, पूर्वदक्षिणा, दक्षिणा, दक्षिणपश्चिमा, पश्चिमा, पश्चिमोत्तरा, उत्तरी, उत्तरपूर्वा, अधस्तनी, ऊर्ध्वा चेति । देवतापरिग्रहवशाच्च पुनरेषैव दिक् दशवोच्यते - ऐन्द्री, आग्नेयी, याम्या, नैर्ऋती, वारुणी, वायव्या, कौबेरी, ऐशानी, नागीया, ब्राह्मी चेति ॥
·
[ दिकालयोरेकत्वे प्रमाणम् ]
ननु च ! येनैव प्रत्ययेन प्रत्यक्षेण लिङ्गेन वा सता दिक्कालाववगम्येते तेनैव तयोर्भेदग्रहणात्कथमेकत्वम् ? तदवगमसमय एव तथा भेदप्रतिभासात् - उक्तमत्र - सर्वत्र तत्प्रत्ययाविशेषादिति ॥
व्यत्ययदर्शनाच्च यैकत्र पूर्वा दिक्, सैवान्यत्र दक्षिणेति गृह्यते - ' प्राग्भागो यः सुराष्ट्राणां, मालवानां स दक्षिणः -- इति ॥
कालेऽपि चिरक्षिप्रादिविभागश्चाव्यवस्थित एव दृश्यते--यो हि अनागत इति परिस्फुरति कालः, स एव वर्तमानो भवति, भूतो
दिग्लिङ्गेति । सर्वत्र हि प्राच्यादिव्यवहार एकरूप एव दृश्यत इत्यर्थः । नागीया- नागसम्बन्धिनी । ब्राह्मी ब्रह्मसम्बन्धिनी । नागलोको हि सर्वाधस्ताद्वर्तते ब्रह्मलोकश्च सर्वोपरिष्टादिति पुराणप्रसिद्धिः ॥
कालदिशो रेकत्वं धर्मिग्राहकप्रमाणविरुद्धमिति शङ्कते - नन्विति । सर्वत्रति । न हि दिग्व्यवहारे देशभेदेन वैलक्षण्यं दृष्टमित्यर्थः ॥
व्यत्ययेति । तथा च प्राक्कादिकस्य प्रतिनियतत्वाभावोऽपि दिवैक्यगमकः ॥