________________
भाकम् २] कालोपाषयः
371 [कालभेदपरिज्ञानस्य प्रयोजनम्] तिथ्यादिभेदावधारणं च वैदिककर्मप्रयोगाङ्गम् , 'पौर्णमास्यां पौर्णमास्यां यजेत' 'अमावास्यायाममावास्यायां च' इति । एवं वसन्ताधतुभेदोऽपि तदङ्गम् ; 'वसन्ते ब्राह्मणोऽग्नीनादधीत , ग्रीष्मे राजन्यः, शरदि वैश्यः, वर्षासु रथकारः' इति ॥
- [ऋत्वादिभेदः स चायमृतुतिथ्यादिविभागः क्रिययेच ज्योतिश्शास्त्रोपदिष्टविशिष्टराशिसंसृष्टचन्द्रादिग्रहगतया लक्ष्यते, लौकिकेन च लक्ष्मणा तेन तेनेति । तद्यथा
चञ्चनचुम्बिताताम्रचूताङ्करकदम्बकैः । कथ्यते कोकिलैरेव मधुर्मधुरकूजितः ॥ २७५ ॥ दिवाकरकरालातपातनिर्दग्धवीरुधः । मार्गास्समल्लिकामोदा भवन्ति ग्रीष्मशंसिनः ॥ २७६ ॥ शिखण्डिमण्ड'लारब्धचण्डताण्डवडम्बरैः । प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः ॥ २७७ ॥ मौक्तिकाकारविस्तारितारानिकरचित्रितम् । शरत्पिशुनतां याति यमुनाम्भोनिभं नमः ॥ २७८ ॥ आयामयामिनीभोगसफलाभोगविभ्रमाः।
हेमन्तम भिनन्दन्ति सोष्माणस्तरुणीस्तनाः ॥२७९ ॥ मध्यस्थवर्तमानापेक्षयैव। तथा च तादृशफलस्य यो देश: तदपेक्षयैव वर्तमानकालसिद्विः । अन्यथा वर्तमानकालस्याप्यभावे तयोरप्यभाव एव । न च तर्हि मा स्तां तौ इति शंक्यम्-क्षणभङ्गभङ्गेन वर्तमानमात्रस्यासिद्धेः ॥
मेदिनीधराः-- पर्वताः । . शरत्पिशुनतां -शरत्कालसूचकत्वम् । आयामेति। हेमन्तौ हि रात्रिपरिमाणः अहःपरिमाणापेक्षयाऽधिकः । आभोगः-परिपूर्णता॥
नारम्भोदण्ड-ख.
242