________________
37C
कालपरीक्षा
[ न्यायम
;
चच्छेदात् किया वर्तमानोच्यते ' पचति' इति तदवच्छेदात् घटाकाशवत् कालोऽपि तावान् वर्तमान इत्युच्यते । अभिनिर्वृत्तफलावच्छेदात्मा परिस्पन्दसन्ततिर तीता भवति - 'अपाक्षीत् ' इति तदवच्छेदात् कालोऽप्यतीत उच्यते । च्छेदात् भविष्यन्ती क्रियोच्यते 'पक्ष्यति' इति ; तथा कालोऽपी त्येव' मौपाधिकः काले' वर्तमानादित्रयव्यवहारः ॥
अनारब्धफलाव
[ वर्तमानकालसमर्थनम् ]
,
अतश्च यदुच्यते - वृक्षात् पततः पर्णस्य भूतभविष्यन्तावध्वानों दृश्येते न वर्तमानः । तस्माद्वर्तमानः कालो नास्तीति -- तदसम्ब द्धम् — अध्वव्यङ्गयत्वाभावात् कालस्य । न ह्यध्वव्यङ्ग्यः कालभेदः । किन्तु यथोक्तक्रमेण क्रियाव्यङ्गय एवेति । क्रियापरिकल्पितभेद-: निबन्धनश्चायं क्षणलवकाष्ठा कलानालिकामुहूर्त यामाहोरात्रमा सव -. यन संवत्सरयुग मन्वन्तरकल्यव्यवहार इत्यलं प्रसङ्गेन ॥
तमं परित्यक्तुं शक्यम् । एवञ्च एकस्या एव क्रियायाः स्थितिकाले मध्ये भवान्तर सूक्ष्मभेदात्, ततः - ततः इति अस्ति भेदः । अत एतावती दीर्घशरीरा क्रिया न क्षणोपाधिर्भवितुमईति । तत्राप्यवान्तरभेदात् अतीतादिभेद. सहजः । अतः तत्रातीता दिव्यवहारः उपाध्यन्तरेण चेदनवस्था । येन उपा धिना परिच्छिन्ना क्रियेत्युच्येत तत्स्थाने काल एव भवतु । अतः सर्वत्र एताशव्यवहाराय कल्प्यः कालः अखण्डः कल्पयितुं शक्यः । क्रियायास्तु अखण्डत्वं अनुभवविरुद्धम् । अतः सार्वदिक सार्वत्रिक व्यवहारहेतुः कालः अतिरिक्त एव ॥
"
अथ 'वर्तमानाभावः पततः पतितपतितन्यकालोपपत्तेः' (न्या- सू-२ १ ४० ) इतिसूत्रोक्तं विचारं प्रदर्शयति - अतश्चेत्यादि । 'वृक्षात्' इत्यस्य स्थाने 'वृन्तात् ' इति भाष्ये क्वचित् पाठः । वृन्तात्प्रच्युतस्य भूमिं प्रत्यासीदतः फलस्य वृक्षस्य च मध्ये यो देश :- अध्वा सः भूतः फलस्य भूमेश्च मध्ये यो देशः - अध्वा स भविष्यन्, एतदतिरिक्तः देशो न हि कश्चित् तृतीय उपलभ्यते । अतः वर्तमानकाल इति कश्चिन्नास्त्येवेति पूर्वपक्ष्याशयः । नाध्वव्यङ्गयः कालः, किं तर्हि ? क्रियान्यंग्यः' इति भाष्यमनुसृत्याह - अध्वेति । भूतभविष्यन्निर्देशश्च
·
1 सोपाधिकः काल एव - ख.