SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ मादिकम् २] कालस्य एकत्वेऽपि वर्तमानादिम्यवहारोपपत्तिः 360 कालः एक एव] स चायमाकाशवत् सर्वत्रैकः कालः। यथाऽऽकाशलिङ्गस्य शब्दस्य सर्वत्राविशेषात् विशेषलिङ्गाभावाश्चैकः, तथा ॥ सर्वत्र तयवहाराद्विभुः। अवयवाश्रयानुपलंभात् निरवयवः, अनाधितश्च। अनाश्रितत्वादेव द्रव्यम्। अत एवावयवविभागादिनाशकारणानुपपत्तनित्य इति !! . [एकस्यापि कालस्य वर्तमानादिभेदोपपत्तिः) ननु ! एवश्चैकत्वात् कालस्य कुतो वर्तमानादिविभागः? तदभावात् कथं त्रिकालविषयमनुमानमुच्यते ? -- उच्यते -न तात्विकः कालस्य भेदो वर्तमानादिः। किन्त्वसनप्यसो व्यवहारसिद्धये केनचिदुपाधिना कल्प्यते ॥ कालोपाधिः] कः पुनरसावुपाधिः? क्रिपति बमः । ननु तम्या अपि न स्वतो वर्तमानादिभेदः; तद्भावे वा सैव तथा भवतु ! कि कालेन?मेवम् --उत्पत्तिस्थिति नरोधयोगिफलावच्छेदेन नानाक्षणपरम्परामिका क्रियेत्युच्यते, 'सा वर्त'मानादिभेदवती च। तथा हिस्थाल्यधिश्रयणात् प्रभृति आतदवतरणादुत्पद्यमानौदनाख्यफला एक इति । कार्यानुरोधादनुमाने एकत्वेऽपि कार्योपपत्ते इति हेतुरूयः ॥ . अवयवाश्रयः-अवयवरूपः आश्रयः। अत एव अवयवानाश्रितस्वादव । विभागादि-आदिना नाशपरिप्रहः ॥ - तदभावात्-विभागाभावात् । तात्त्विकः तत्त्वकृत:। एक एव क्षणः स्वपूर्वक्षणापेक्षया भविष्यन्निति, स्वापेक्षया वर्तमान इति, अनन्तरक्षणापेक्षया भूत इति च व्यवहियते। अतो भूतत्वादिः न स्थिरो धर्मः, किन्तु बुध्यपेक्ष एवेति न काले भेदः॥ तथा भवदभिमतकालस्थानापन्नः। उत्पत्तीत्यादि। क्रियायामपि अस्ति सूक्ष्मो भेदः । एका ह्युत्पमा क्रिया द्वितीयक्षणे विभागं, तत: पूर्वसंयोगनाश, तत: उत्तरदेशसंयोगं चोत्पाद्य पञ्चमे क्षणे नश्यति। नेते वन्य वर्त-क. NYAYAMANJARI
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy