SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ आह्निकम् २] कालस्यातिरिक्तत्वसमर्थनम् 367 , मुहूर्तम् इयान् प्रहरइति । तत्रैकस्मिन् मुहूर्ते प्रहरे वा निर्वर्त्य - मानेषु बहुषु कार्येषु युगपदिति भवति मतिः; मुहूर्तान्तरापेक्षेषु क्रमेणेति । तस्मात् ग्रहादिपरिस्पन्द एव तैस्तैर्निमित्तैरुपलक्ष्यमाणप्रमाणः काल इति । कालविदश्च ज्योतिर्गणकास्त एवैनं बुध्यन्ते ॥ तदसांप्रतम् चन्द्रादिग्रहपरिच्छेदेऽपि क्रमादि' प्रतीतिदर्श नात्॥ चिरेणास्तं गतो भानुः शीतांशुः शीघ्रमुद्गतः । उदिताविव दृश्येते युगपद्धौमभार्गवौ ॥ २७३ ॥ इति दृश्यते प्रतिभासः । न च ग्रहान्तरपरिस्पन्दकारणक एष शक्यते वक्तुं ; अनवस्थाप्रसङ्गात् । तस्मान्न ग्रहादिपरिस्पन्दः कालः, किन्तु वस्त्वन्तरम्, यत्कृतोऽयं क्रमाक्रमादिव्यवहारः ॥ [काल: स्वपरनिर्वाहकः ] aa ! भवत्कल्पितोऽपि कालः किं स्वत एव 'क्रमाक्रम' स्वभावः ? हेत्वन्तराद्वा ? स्वतस्तस्य तत्स्वभावत्वे कार्यस्यैव पटादेः परिदृश्यमानस्य तत्स्वाभाव्यं भवतु ! किं कालेन ? हेत्वन्तरपक्षे वनवस्था, तस्यापि हेत्वन्तरापेक्षत्वादिति कोsपि क्रियाकालपदौ पर्यायेण न व्यवहरति ? इति शङ्कायामाह - तेस्तैरित्यादि । एकस्यैव प्रदेशस्य पुरुषबुद्धिकल्पितोपाधिभेदैः नल्वक्रोश• गव्यूत्यादि विलक्षणव्यवहारवदिति शेषः । ननु कानि तानि निमित्तान्युपाधि'भूतानीत्यत्राह - कालविद इति ॥ चिरेणेति । वसन्त अहः प्रमाणाधिक्यात चिरेण सूर्यास्तमयः । हेमन्त रात्रिप्रमाणाधिक्यात् शीघ्रं चन्द्रोदयः ॥ अथ 'इदानीमेक क्षण: गत: ' इत्यादौ कालस्यापि कालान्तरसम्बन्धः प्रतीयते । तथा चानवस्था । एकस्यैव स्वपरनिर्वाहकत्वे तत् क्रियादीनामेवास्त्विति शङ्कते - नन्विति ॥ 1 क्रिया- ख. 2 क्रमादि - त्र. क्रम-ख.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy