________________
366 कालपरीक्षा
[न्यायमचरी [न देवदत्तादिक्रियालम्बना: चलतीत्यादिप्रत्ययाः] ननु! परिस्पन्दादिक्रियाभेद एवात्र निमित्तम् । कश्चित्परिस्पन्दश्चतुरः, कश्चिन्मन्थर इति क्वचित् क्षिप्रबुद्धिः, क्वचिच्चिरबुद्धिरितिनैतचारु - परिस्पन्दगतयोरपि चातुर्यमान्थर्ययोनिमित्तान्तरकार्यत्वात् । परिस्पन्देऽपि-चिरेण गच्छति, शीघ्रं धावतीति चिरक्षिप्रादिप्रतीतिदृश्यते ॥
[न सूर्यादिपरिस्पन्दालम्बनाः चलतीत्यादिप्रत्ययाः] आह-न देवदत्तादिपरिस्पन्दनिबन्धनाः क्रमाक्रमादिप्रत्ययाः, किन्तु ग्रहनक्षत्रादिपरिस्पन्दनिबन्धनाः। स एव च ग्रहतारादिपरिस्पन्दः काल इत्युच्यते। तत्कृत एवायं यामाहोरात्रमासादिव्यव. हारः। तस्य स्वत एव भेदादीपाधिकभेदकल्पनाक्लेशो न भविष्यति । भेदपरिच्छेदे नालिका'प्रह'रादिरुपायः-इयती नालिका, इय
ननु क्रियावर्गसाम्येऽपि क्रियास्वरूपेऽस्तिं विशेषः प्रत्यक्षसिद्धः इति शरते-नन्विति। क्रिययोर्विशेषमुपपादयति-कश्चिदिति। अलसः पुरुषः यावदेकवारं हस्तं चालयति तावत्येव चतुर: चतुःपञ्चवारं हस्तं चालयति। अतश्च क्रियासाम्येऽपि चतुरालसपुरुषाधीन: क्षिप्रचिरादिव्यवहार इति नातिरिक्तकालसिद्धिरित्यर्थः। परिस्पन्देत्यादि। अयमर्थ:-सत्यं पुरुषाधीनः चिरक्षिप्रादिभेद इति । परन्त्विदमत्र वदतु भवान् ।' चतुर: अलस इति पुरुषभेदः किमधीन इति। यावदेकवारं पदं निक्षिपत्यलस:, तावञ्चतु:पञ्चवारं पदं निक्षिपति चतुर इति स्वलु तनिरूपणीयम् । अत्र यावत्तावच्छब्दार्थः कः ? यदि स्वरूपातिरिक्त: कालो नाम न स्यात् परिमितकाले चतुःपञ्चपदनिक्षेपात शैघ्रयं, तावत्येव च काले एकपदनिक्षेपात चिरत्वं चोपपादनीयं कथमुपपायेत ? अतः क्रियातिरिक्तोऽस्ति काल इति ॥
ननु भावानमिज्ञो भवान् । चिरक्षिप्रादिप्रतीतानां न परिदृश्यमानक्रियाविषयत्वं ब्रूमः। किन्तु सूर्यादिपरिस्पन्दादिविषयत्त्वम । एकस्माद्देशात देशान्तरं गच्छति सवितरि, तदैव कश्चित् क्रोशमेकं गच्छति। अन्यस्तु कोशद्वयमिति चिरक्षिप्रप्रत्ययो स्यातामिति शङ्कते- आहेति । ननु तर्हि कुतः
1प्रहा-ख.