________________
आह्निकम् २] कालस्यानुमेयत्वपक्षः
365 अप्रत्यक्षत्वमात्रेण न च कालस्य नास्तिता।
युक्ता पृथिव्यधोभागचन्द्रमापरभागवत् ॥ २७१॥ ___ अप्रतिभासमानोऽपि कालः संस्कार इवेन्द्रियसहचरितः प्रत्यभिज्ञां क्षिप्रादिप्रतीति जनयिष्यति। कृतश्च प्रत्यक्षलक्षणे (पु. 217-218) महान् कलि:- किं विषयमेदादेव प्रतिभासमेदः? उतोपायमेदादपि ? इति। तदलं पुनस्तद्विमर्दैन ।
[ कालस्यातिरिक्तत्वसाधनम्] प्रमाण मिति निर्णीतं प्रत्यक्षं सविकल्पकम् ।
तस्मान्न कल्पनामात्रं चिरक्षिप्रादिसंविदः ॥ २७२ ॥ 'नवासां परिदृश्यमानकारणविनिर्मितत्वमुपपद्यते ; क्रियमाणस्य पटादेः कार्यस्य, तदुत्पादकस्य च तन्तुतुरीवेमशलाकाकुविन्दादिकारणवृन्दस्य साम्येऽपि क्वचित्तूर्ण कृतम , क्वचिञ्चिरेण कृतमिति प्रतिभासभेददर्शनात् निमित्तान्तरं चिन्तनीयम् ॥
ननु एकस्मिन्नेव प्रत्यये विशेष्यस्य द्रव्यस्य प्रत्यक्षत्वं, विशेषणस्य कालस्यानुमेयत्वमिति 'कथं घटतामित्यत्राह- अप्रतिभासमान इति । इन्द्रियसहचरितः संस्कारः प्रत्यभिज्ञामिव इत्यन्वयः । इदमुक्तं भवति-क्षिप्रं गच्छीति ज्ञानं न सांशं, येन विशेष्यांश: विशेषणांश इति व्यवहियेत ; किन्तु संस्कार-इन्द्रिय जन्यप्रत्यभिज्ञेव विशिष्टमेकं ज्ञानम् । सामग्रीद्वयजन्यं ज्ञानं कथमेकं भवतीत्यादिकं तु पूर्व (पुट. 218) मेव विचारितम् कलि:-कलहः॥ · द्रव्यकल्पनावत् कालकल्पनाया अपि अप्रमाणत्वेन कालासिद्धिं ब्रुवन्तं सौगतं प्रत्याह-प्रमाणमिति। आसां-चिरक्षिप्रादिसंविदाम् । परिदृश्यमानकारणं-क्रियादिरूपम् । चिरक्षिपनिवर्त्यमानयो: पटयो: न हि क्रियावर्गे न्यूनाधिकभाव: वक्तुं शक्यः, सामग्रीतौल्यात् । अत: चिरक्षिप्रादिप्रतीति: क्रियातिरिक्तनिबन्धनैव वाच्यति ॥
न च संपरि-ख.