________________
364
[ न्यायमरी
एवं 'गुरु द्रव्यम्' इति कार्तस्वरादौ प्रतिभासात् गुरुत्वमपि
प्रत्यक्षं न पतनानुमेयमेव ॥
काळपरीक्षा
तस्मात् स्वतन्त्रभावेन विशेषणतयाऽपि वा । चाक्षुषज्ञानगम्यं यत् तत्प्रत्यक्षमुपेयताम् ॥ २७० ॥
अत एव प्रत्यक्षः कालः । एवं समानन्यायत्वात् पूर्वापरादिप्रत्ययगम्या दिगपि प्रत्यक्षा वेदितव्येति ॥
[कालस्यानुमेयत्वपक्ष:]
अन्ये मन्यन्ते - दण्डी देवदत्तः, नीलमुत्पलं इति' व 'द्विषयातिरेकस्याग्रहणात् प्रत्ययातिशयस्य च परोक्षकालपक्षेऽपि तत्कारणकस्योपपत्तेरनुमेय एव कालः ॥
ननु प्रतीति मात्राद्यदि प्रत्यक्षत्वं तर्हि 'गुरु द्रव्यम्' इत्यादिप्रत्ययात् गुरुत्वमपि प्रत्यक्ष स्यात् इति शङ्कामिष्टापत्त्या परिहरति- एवमिति । एवकारेण प्रत्यक्षत्वमपि कुत्रचिदिति सूचितम् । अतश्च प्राथमिकगुरुत्वग्रहणस्यानुमानाधीनत्वेऽपि असकृदनुभूतस्थले तत्प्रत्यक्षमपि भवतीति सूचितम् । उक्तन्यायं दिश्यभ्यतिदिशति - एवमिति । 'पूर्वस्यां घटः' इत्यादिप्रतीतेस्सत्वादिति शेषः ॥
स्वसिद्धान्तमाह- अन्य इति । विषयातिरेक इति । केवलदेवदत्तप्रतीत्यपेक्षया दण्डी देवदत्त इत्यादौ देवदत्तस्वरूपातिरिक्तो विषयः दण्डादिर्यथा स्पष्टभा तथा कालादिर्नातिरिक्तः स्पष्टमवभासत इति कालो न प्रत्यक्ष इत्यर्थः । ननु चिरचिप्रादिप्रतीतिस्सर्वसिद्धा । नेयं प्रतीतिः स्वरूपमात्रालम्बना, स्वरूपभानकाले सर्वत्र तथाऽनवभासात् । अतश्चातिरिक्तकालविषयकत्वं तादृशप्रतीतीनां सिद्धमिति चेत ; तत्राह - प्रत्ययेति । अयं भावः । अस्ति चिरक्षिप्रादिप्रतीतिविषयः द्रव्यस्वरूपातिरिक्तः कालः । न हि वयं कालमेव निषेधयामः, किन्तु तत्प्रत्यक्षतामेव । स च काल: अनुमेयोऽपि प्रतीताववसितुमष्ट एव । न हि प्रत्ययविषयः सर्वोऽपि प्रत्यक्षविषय: । 'ज्ञातो घट: इत्यादिषु अनुमितस्यापि ज्ञानस्य मानदर्शनात् । अतः कालोऽस्ति, परन्त्वनुमेस्स इति । तत्कारणकस्य - परोक्षकालकारणकस्य । इदं प्रत्ययातिशयविशेषणम् ॥
त-क.