________________
. आह्निकम् २] कालस्य प्रत्यक्षवपक्षः
363 न चानुद्घाटिताक्षस्य क्षिप्रादिप्रत्ययोदयः । तद्भावानुविधानेन तम्मात् कालस्तु चाक्षुषः ॥ २६९ ॥
खतन्त्र एव तर्हि घटादिवत् कस्मान्न गृह्यते काल इति चेत् -- वस्तुस्वभाव एष न पर्यनुयोगार्हः। रूपिद्रव्यविशेषणतां गतस्य 'तस्य ग्रहणम्, न दण्डादिवत् स्वतन्त्रस्यापीति । गगनादेस्त्वन्यविशेषणतयाऽपि न ग्रहणमस्तीति तस्याप्रत्यक्षत्वम् , न त्वरूपत्वात्॥
[प्रत्यक्ष रूपं अप्रयोजकम्] .. अथ वदेत्-विशेषणस्यापि रूपवत एव दण्डादेः चक्षुषा ग्रहणम , न कालादेरिति-तदयुक्तम्-अरूपस्यापि सामान्यादेः विशषणस्य चक्षुषा ग्रहणात् । द्रव्ये नियम इति चेत् ; उक्तमत्र, यदेव नयनकरणकावगमगोचरे संचरति तदेव चाक्षुष रूपवदरूपं वा, द्रव्यमद्रव्यं वेति ॥ माह-न चेति। तद्भावः --चक्षुरिन्द्रियसद्भावः। तथा च कालो यदि न चाक्षुषस्तर्हि निमीलिताक्षस्यापि चिरक्षिप्रादिप्रत्ययापत्तिः ॥ ____ननु यदि काल: प्रत्यक्षः तदा स्वातन्त्र्येण तत्प्रत्यक्षं स्यात् प्रत्यक्षद्रव्यत्वात्, घटादिवत् । न च भूतलं घटवदित्यादौ घटादेरपि विशेषणतयैव भानमस्तीति शंक्यम् ; सर्वत्र भूतलभानानियमात् ! भूतलभानेऽपि घटप्रत्यक्षं प्रति तद्भानस्याप्रयोजकत्वात् । कालस्तु कदाऽपि न स्वतन्त्रः प्रत्यक्षो दृष्ट इति कालो न प्रत्यक्षद्रव्यमिति शङ्कते--स्वतन्त्र इति । ननु अरूपवतामपि प्रत्यक्षत्वे गगनस्यापि प्रत्यक्षत्वापत्तिरिति शङ्कायां, भवन्मते रूपवतां परमाण्वादीनामप्रत्यक्षत्वाद्रूपवत्वमानं यथा न प्रत्यक्षप्रयोजक तथास्माकं अरूपवत्त्वमपि न प्रत्यक्षप्रयोजकम् । प्रतीतिरेव प्रत्यक्षत्वाप्रत्यक्षत्वे प्रमाणमिति वदतिगगनादेस्त्विति ॥
उक्तमिति। अयं भाव:-चाक्षुषप्रत्यक्ष प्रति रूपं कारणमित्युक्ते सामान्ये व्यभिचारे आपादिते 'द्रव्यचाक्षुषं प्रति' इति संकोचे किं प्रमाणम् ? यद्यनुभवः, तर्हि कालप्रत्यक्षत्वस्याप्यनुभवात् 'कालभिन्नद्रव्यचाक्षुषं प्रति' इति संकोचः क्रियताम्, न हि भवदिच्छैव नियामिकेति ॥
ग्रह-क.