________________
362
कालपरीक्षा
न्यायमजरी [अरूपस्यापि कालस्य प्रत्यक्षत्वम् ] अरूपो नन्वयं कालः कथं गृह्येत चक्षुषा? रूपमेव 'तवा'रूपं कथं गृह्येत चक्षुषा ? ॥ २६७ ॥ कथं वा रूपवन्तोऽपि परोक्षाः परमाणवः ?
तस्मात् प्रतीतिरन्वेष्या किं निमित्तपरीक्षया ? ॥ २६८ ॥ ननु ! द्रव्येऽयं नियमः, न रूपादौ। द्रव्येऽपि नायं नियमः . यत् रूपवत् तत् प्रत्यक्षमिति-येन परमाणूनां तथाभावः स्यात् । किन्तु यत् प्रत्यक्षं, तत् रूपवदिति । तदुक्तम्-'त्रयाणां प्रत्यक्षत्वरूपवत्त्वद्वत्वादीनि' (प्रश-भा-द्रव्य) इति ॥
नेदं दैविकं वचनं-यदनतिक्रमणीयम्। न च वचनेन । प्रत्यक्षत्वमप्रत्यक्षत्वं वा व्यवस्थाप्यते । प्रत्यक्षत्वं हि ऐन्द्रियिकप्रतीतिविषयत्वमुच्यते। तच्चेदस्ति कालस्य, नीरूपस्यापि प्रत्यक्षता केन वार्यते ! रूपवत्त्वं तद्रव्याणामस्तु, तथा दर्शनात ॥
अरूपमिति। न हि रूपे रूपान्तरं वर्तते। अथापि तत् प्रत्यक्षमेव । रूपवतामपि परमाण्वादीनां अप्रत्यक्षत्वेन, अरूपाणामपि रूप-संख्यादीनां प्रत्यक्षत्वेन प्रत्यक्षत्वाप्रत्यक्षत्वयोः प्रतीतिरेव शरणीकर्तव्या ॥ '
द्रग्यचाक्षुष एव रूपं कारणं, न तु रूपादिगुणचाक्षुषे इति शकते --- नन्विति । परमावाद्यप्रत्यक्षत्वं समर्थयति - द्रव्येऽपीति । 'धूमवान् वह्निमानिति कथिते-न हि वह्निमान् धूमवान् इत्यपि संभवतीति भावः । उक्तार्थे प्रशस्तपादाचार्यसम्मतिमाह-तदुक्तमिति । अत्र पृथिव्यप्तेजसामेव प्रत्यक्षत्वकथनात् कालादीनामप्रत्यक्षत्वं सिद्धम् । अत्र चात्मादिषु वारणाय प्रत्यक्षपदं बाह्यप्रत्यक्षपरं व्याख्यातं कन्दल्यां श्रीधरेण ।। - इदं--प्राशस्तपादिकम् । तद्व्याणां- रूपवद्रव्याणां । कार्यकारणभावनिर्णये अनुभव एव हि प्रमाणमित्यर्थः । कालस्य प्रत्यक्षत्वेऽनुभव
तथा-क.
पि-ख.
-क.