________________
कालस्य प्रत्यक्षत्वपक्ष:
361
माह्निकम् २]
मुहूर्तयामाहोरात्रमासर्वयनवत्सरैः। लोके काल्पनिकैरेव व्यवहारो भविष्यति ॥ २६३ ॥ यदि त्वेको विभुर्नित्यः कालो द्रव्यात्मको मतः । अतीतवर्तमानादिभेदव्यवहृतिः कुतः? ॥ २६४ ॥
[काल: प्रत्यक्षगम्यः इति पक्षः] एवमाक्षिप्ते सति
प्रत्यक्षगम्यतामेव केचित् कालस्य मन्वते । विशेषणतया कार्यप्रत्यये प्रतिभासनात् ॥ २६५ ॥ कमेण, युगपत् , क्षिप्रं, चिरात् कृतमितीदृशाः।
प्रत्यया नावकल्पन्ते कार्यमात्रावलम्बनाः ॥ २६६ ॥ न हि विषयातिशयमन्तरेण प्रतिभासातिशयोऽवकल्पते ।
शेषः । सूर्यादिग्रहाणां अश्विन्यादिनक्षत्राणां परिस्पन्दाधीनः दिनादिव्यवहारः । तेषां परिस्पन्दो नाम क्रियैव। ततश्चातिरिक्तः कालः कुत्र सिद्ध इति । अतिरिक्तकालाङ्गीकारेऽपि मूहूर्ता दिव्यवहारस्य पूर्ववदेव निर्वाह्यत्वेन भक्षितेऽपि लसुने न शान्तो व्याधिरित्याह -- यदि वितिः कालस्याविभुत्वेऽनेकत्वेऽनित्यत्वे च तदङ्गीकरणमेव निरर्थकमिति भावः। कुत इति । यद्यपाधिमिः, तमुक्तः ‘भक्षितेऽपि' इति न्यायः ।।
केचिदिति । 'कालश्चैको विभुर्नित्य प्रविभक्तोऽपि गम्यते। वर्णवत् सर्वभावेषु व्यज्यते केनचित क्वचित्' इति (श्लो. वा. 1-1-6 शब्द 303) कुमारिलः । अत्र पार्थसारथिः - ' ननु नायं कालः स्वातन्त्र्येण गम्यते । तत: किमस्य सदावे प्रमाणम् ? अत आह-सर्वेति । भावेषु गृह्यमाणेषु तद्विशेषणतया केनचित्पूर्वत्वेनापरत्वेन वा गृह्यते। इदं पूर्व, इदमुत्तरं इति प्रत्ययः भावमात्रमनालम्बमानः वस्स्वन्तरमवस्थापयति, स एव कालः ॥
विषयेति--क्रियादीनां तद्विषयत्वं तूत्तरत्र निराक्रियते ॥ .