________________
360
कालपरीक्षा
[न्यायमअरी
कालसजावाक्षेपः] अत्र चोदयन्ति। काले सति त्रैकाल्यग्रहणं चिन्त्यम् । स एव तु दुरुपपादः। तदभावे कस्य वर्तमानादि विभागो निरुप्यते ? • न तावद्गृह्यते कालः प्रत्यक्षेण घटादिवत् । विरक्षिमा दियोधोऽपि कार्यमात्रावलम्बनः ॥२५२ ॥ न चामुनैव लिङ्गेन कालस्य परिकल्पना। प्रतिबन्धो हि दृष्टोऽत्र न धूमज्वलनादिवत् ॥ २६०॥ । प्रतिभासातिरेकस्तु कथञ्चिपपत्स्यते । प्रचितां काश्चिदाश्रित्य क्रियाक्षणपरम्पराम् ॥ २६१॥ . न चैष ग्रहनक्षत्रपरिस्पन्दस्वभावकः । कालः कल्पयितुं युक्तः क्रियातो नापरो ह्यसौ ॥२६२॥
तदभावे--कालस्यैवाभावे। ननु · चिरक्षिप्रादिप्रतीतिरेव काले प्रमाणमित्यत्राह न तावदिनि। रूपवतो घटादेः प्रत्यक्षत्वं युज्यते, न स्वरूपस्य कालस्य । उक्तप्रतीतिस्तु कालोपाधित्वेन भवत्सम्मतकार्यवस्तुविषयतयाऽन्यथासिद्धः। कालाङ्गीकर्तृमतेऽपि विभोः कालस्याखण्डत्वेन उपाधिमन्तरा क्षणादिव्यवहारो न निर्वहेत । ततश्च तद्धेतोरेव तद्धेतुत्वे मध्ये किं तेन? ननु कार्यस्वरूपस्य भानकाले सर्वत्र कालव्यवहाराभावान् ततोऽतिरिक्तं किञ्चित् तादृशव्यवहारनियामकमनुमास्यामः इत्यत्राह-न चामुनेति । चिर क्षिप्रादिव्यवहारः कालविषयकः, कालातिरिक्ताविषयकत्वे सति सविषयत्वात् । स व्यवहार: कालातिरिक्तद्रव्यस्वरूपाद्यविषयकः, परस्परविलक्षणप्रतीतिविषयत्वात्-इत्याद्यनमानमत्र ग्राह्यम् । धूमेति-नित्यातीन्द्रियेऽनुमानाप्रवृत्तरित्यर्थः। प्रतीतिस्त्वन्यथासिद्धेत्युक्तम् । ननु स्वरूप कालप्रतीत्योवैलक्षण्यमनुभवमिद्धमित्यत्राह - प्रतिभासेति । तत्तद्विशेषणभेदात् यथा एक एव घट: नीलः, महान् , एक: इत्यादिप्रतिभासहेतुर्भवति तथा प्रकृतेऽपि युज्यते। ननु कोऽयं विशेषणभेदः प्रकृते इति चेत--सूक्ष्मा क्रियैव। उक्तं खल्वनुपदमेव-'तद्धे तोरेव तद्धेतुत्वे मध्ये किं तेन कालेन' इति । ननु क्रिया क्षगच दुष्टयमाघ्रपरिमिता। ततोऽधिकम्यवहारः कथमिति चेत् , प्रतिक्षणमुपचीयमानक्रियापरंपरयेवेति गृह्यताम्। काल इति। अतिरिक्त इति