________________
आडिकम् २]
अनुमानस्य कालत्रयविषयकत्वम्
359
[अनुमानं कालत्रयविषयम् इदमिदानी चिन्त्यते। यदेतदिन्द्रियादिसन्निकर्षजत्वादिना लक्षितमस्मदादिप्रत्यक्षं तत्किल प्रायशो वर्तमान कालविशिष्टवस्तुविषयम् । एवमिदमनुमानमपि किं तद्गोचरमेव? किं वा कालान्तरपरिच्छेदेऽपि क्षमम् ? इति। तदुच्यते-त्रिकालविषयम मानमिति। कस्मात् ? त्रैकाल्यग्रहणात् । त्रिकालयुक्ता अर्था अनुमानेन गृह्यन्ते । भूता नदीपूरेण वृष्टिरनुमीयते ; सैव भविष्यन्ती मेघोन्नत्या; धूमेन वर्तमानोऽग्निरिति ॥ . अतश्च यन्मीमांसकैरुच्यते-चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्म व्यवहितं विप्रकृष्टमित्येवंजातीयकमर्थं शक्नोत्यवगमयितुं, नान्यत् किञ्च इति-तदयुक्तम्-चोदनावत् प्रमाणान्तरस्याप्येवं जातीयकविषयत्वोपपत्तेः । प्रत्यक्षमपि योगिनां त्रिकाल विषयमुक्तम् । अस्मदादीनामपि क्वचित्- इति ॥
तुल्यम् । सुखदु:खमोहात्मकं हि जगत् आहरणधारणादिकार्यभेदविशिष्टमेव दृश्यते ।तादृशकार्यानुगमाञ्च अनुगतव्यवहारो निर्वहतीति न कापि हानिरिति ॥
एवञ्चैतस्मिन् मते · सुखदुःखमोहात्मकोपादानद्रव्यमेव जातिस्थानापन्नं वक्तव्यम् । सुखदुःखादिकार्याणां तद्धेतुभूतसत्वादिगुणानां च तत्तद्वयक्तावेव पर्याप्तत्वेन विकृतिवत् नानात्वमेवेति नानुगमकत्वं तेषां संभवतीति अनुगत. न्याप्तिग्रहः सर्वथा न संभवत्येवेति ॥
'सद्विषयं प्रत्यक्षं, सदसद्विषयं चानुमान। कस्मात् ? त्रैकाल्यग्रहणात्' इति भाष्यं स्मरन् परीक्षामुपक्रमते-इदमित्यादि। योगिप्रत्यक्षस्य प्रतिभायाश्च त्रिकालविषयत्वस्य पूर्व (277 पु.) स्थापितत्वात् ---प्रायश इति ॥
एवमनुमानस्य त्रिकालविषयत्वेन चोदनासूत्रशाबरभाष्यं स्वयं गलितमित्याह-अतश्चेति। शाबरभाष्ये उपरितनवाक्यानन्तरं 'नेन्द्रियम् ' इति वर्तते । तच्च 'नान्यत्किञ्च इत्यस्यैव सनिदर्शनविवरणपरं व्याख्यातं प्रदर्शनार्थमत्रोक्तमिन्द्रियं' इत्यनेन भट्टपादैः । तदपि न युक्तमित्याह-प्रत्यक्षमपीति। अतश्च 'अतीतानागतेऽप्यर्थे सूक्ष्मे व्यवहितेऽपि च । प्रत्यक्षं योगिनामिष्टं कैश्चित' इति पूर्वपक्षवार्तिकोक्तमेव साधीय इत्युक्तं भवति । कचित्----प्रतिभायाम् ॥