________________
358
परसम्मतानुमानलक्षणनिरास: न्यायमजरी बौद्धोक्तप्रतिबन्धदूषणदिशा तल्लक्षणं दूषितम्
भूयोदृष्टमितान्वयैकशरणं शोच्यं पुनः शाबरम् । साङ्ख्यानां तु कुतोऽनुमानघटनोपादानरूपा यतः
- तेषां जातिरसौ च तद्विकृतिवद्भिन्नेति दुःस्थोऽन्वयः ॥ बौद्धत्यादि। 'नान्तरीयकार्थदर्शनं तद्विदोऽनुमानम्' इति दिङ्नागः। यमन्तरा यो न भवति स नान्तरीयकः, तादृशार्थविज्ञानं तद्विदः- तादृशनान्तरीयकत्वज्ञानवतः यजायते तदनुमान मेत्यर्थः । 'त्रिरूपालिङ्गात् यत् अनुमेये ज्ञानं तदनुमानम्' (न्या. बि.) इति धर्मकीर्तिः । पक्षसत्त्वादिकं त्रैरूप्यं पूर्वमेव वर्णितम् । एतल्लक्षणद्वयमपि अविनाभावगर्भितम्। स च तादात्म्य- . तदुत्पत्तिभ्यां उक्तः । तादात्म्यतदुत्पत्ति निबन्धनाविनाभावस्य निरस्तत्वादेव तन्मूलकं तदीयलक्षणमपि निरस्तमेव, पृथक् न दूष्यत इत्यर्थः। भूयोदृष्टभूयोदर्शनम्। शाबरमिति। 'अनुमानं ज्ञातसम्बन्धस्य एकदेशदर्शनात् एकदेशान्तरेऽसन्निकृष्टेऽर्थे बुद्धिः' इति शाबरंभाष्यम् । अत्र सम्बन्धश्च न्याप्तिरूपा। 'भूयोदर्शनगम्या च न्याप्तिः' (श्लो. वा.)। एवं सत्यन्वयव्याप्तिमात्र मुक्तं स्यात् । न चान्वयमात्राब्याप्तयवधारणं संभवति किन्तु व्यतिरेकोपोदलितादन्वयात् इत्युक्तम् (321-पु.)। अतश्चैतदपि न समीचीनम् । सिद्धान्ते तु तत्पूर्व के ' इति सामान्यत उक्तम् । तेन चान्वयव्यतिरेकदशने क्रोडीकृते इति न दोषः। सांख्यानामिति । अनुमानघटना कुत: ?. सर्वथा न संभवतीत्यर्थः। तत्र हेतुः-यतः तेषां जातिः उपादानरूपा इति। अस्तु तथा। ततः किमित्यत्राह-असौ जाति: तद्विकृतिवत् उपादानजन्यविकृतिवत् भिन्नेति अन्वयः-व्याप्त्यनुगमः दुस्स्थः। एतदुक्तं भवति - व्यक्तीनामननुगतत्वेन ब्याप्तेर्दुर्ग्रहत्वे प्राप्ते जातिरेवानुगमिका वक्तव्या। निरूपितं चैतत्पुरस्तादेव । सांख्यमते च जाति म न काचिदतिरिक्ताऽस्ति। अनुगतव्यवहारश्च उपादानद्रव्यनिबन्धनः तन्मते ॥
ननूपादानस्य मृदः ऐक्येऽपि घटशरावादिनानाविधकार्यदर्शनात् घटशरावादिषु एक एवानुगतधर्मः स्यात् । तथा च अयं घटः, अयं शराव इति विविक्तप्रतीतिः कथमिति चेत् ; अतिरिक्तजातिवादे वा एकमृत्पिण्डारब्धे घटे शरावे च घटत्वशरावत्वयोः प्रतिनियमः कथमिति वक्तव्यम् । आकृतिभेदादिति . चेत् ; आकृति: किं करोति ? इति वक्तव्यम् । कार्यभेदमिति चेत् तदस्माकमपि