________________
357
आह्निकम् २] अनुमानत्रैविध्यविचारोपसंहारः वादश्च सामान्यलक्षणे (पु. 45) विस्तरेण निरस्तः ॥
अतीन्द्रियशक्त्यनुमानमपि न समीचीनम् ] एतेन शक्तयनुमानमपि व्युदस्तं वेदितव्यम् । पुरा च सविस्तरमतीन्द्रियशक्तिनिराकरणं (. 107-114) कृतमेव ।।
तेनादृष्टक्रियाशक्तिखलक्षणमिति 'क्षमम्' । नेदं सामान्यतोदृष्टं इति पूर्वोक्तमेव सत् ॥ २५६ ॥ इति मतुपि वतौ वा प्रत्यये 'वर्ण्य माने
त्रिविधमिद मिहोक्तं युक्तमेवानुमानम् ॥ परकविरचितानां लक्षणानां त्वमुष्मिन् सति न भवति शोभा भास्वतीवेन्दुभासाम् ॥ २५७ ॥
संयोगदर्शनकाले तु किया नास्त्येव । प्रनीतिस्तु 'चलति' इति वर्तमानकालिकी क्रियां प्रदर्शयतीति भावः। तथा च क्रियाकाले संयोगस्यानुत्पत्तः संयोगकाले क्रियाया नाशाच्च वर्तमानकालिकक्रियानुमान दुर्घटम् ॥
एतेन---चलतीति प्रतीति: क्रियाविषयिण्येव, न संयोगविभागविषयिणी । अतश्च न पूर्वोक्त (पुट. 353) दोषावकाश:। ज्ञानानुमेयत्ववादिना भाट्टानां मते 'अहं ज्ञानवान्' इति प्रतीतिर्यथाऽनुमितिरूपा तथा चलतीति प्रतीतिरप्यनुमितिरूपैव । ' अतश्च ‘संयुज्यते' इत्यादिप्रतीतितो वैलक्षण्यं उक्तप्रतीते. स्सुलभमिति न कोऽपि दोष इति-निरस्तम ; क्रियाया अनुमेयत्वे चलतीति वर्तमानताप्रतीतेर्दुर्घटत्वात् ॥ - एतेन--नित्यातीन्द्रियानुमानासंभवोपपादनेन क्षमम्- समर्थ - निरवयं-क्षोदक्षममिति यावत् । मतुपीति--सूत्रघटकपूर्ववत्पद इत्यूह्यम् । लक्षणानां शोभा - इत्यन्वयः ॥
एतावता सौत्रमनुमानलक्षणं साङ्गमुपवर्णितम् । अथ प्रत्यक्षपरीक्षायामिपात्रापि परसम्मतान्यनुमानलक्षणानि कुतो न दूष्यन्ते ? इति शङ्कायां आह----
'क्रमम्-क.
तत्-ख.
वर्त-ख.