________________
किया
।
356 अनुमानविष्यम्
न्यायमचरी . भूकम्पोत्पाते च जाने चलति वसुमतीति मतिरस्ति ; न तत्र संयोगविभागौ गृह्येत, बहुलनिशीथे च न तगम् । तस्मान्न संयोगाद्यालम्बना चलतीति मतिः, अपि तु क्रियालम्बनैवेति ॥
न च नित्यपरोक्षा क्रियाऽनुमातुमपि शक्या, कार्यस्य कारणपूर्वकत्वेन भवन्मते सम्बन्धग्रहणानुपपत्तेः । न हि ते द्रव्यस्वरूपं कारणम् ; अपि तु क्रियाविशिष्टम्। क्रियायाश्च परोक्षत्वान्न तदाविष्टद्रव्य ग्रहणं सुघटमिति कारणत्वाग्रहणात् घटादावपि दुर्घटा. . व्याप्तिप्रतीतिः॥
आत्माऽनुमाने तु नायं दोषः; घटादेः कार्यस्याश्रितस्य प्रत्यक्षमुपलम्भात् । तस्मान्न कार्यानुमेया क्रिया ॥
[संयोगेनापि क्रिया नानुमातुं शक्या] न च संयोगानुमेया; 'संयोगान्तं कर्म' इतिन्यायात् । वर्तमानायाः क्रियायास्तेनानुमातुमशक्यत्वात् । क्रियाऽनुमान
ननु आलोकादीनां रूपादिवत् स्वपरनिर्वाहकत्वं सर्वसम्मतम् । न हि दीपप्रत्यक्षे दीपान्तरमपेक्ष्यम्। अत: खद्योतालोकस्यापि स्वपरनिर्वाहकत्वमस्तीति उपपद्यते तत्प्रत्यक्षं इति चेत् तत्राह--भूकम्पेति । भूकम्परूप: उत्पात:---महाभूतविकारः। ननु तत्रापि गृहमहीरुहभेदनादिदर्शनात् संयोगविभागप्रत्यक्षं शस्यशङ्कमित्यत्राह- बहुलनिशीथ इति । कृष्णपक्षरात्रौ, घनान्धकारे वेत्यर्थः॥
__ तन्मते क्रियाऽनुमानमप्यसंभवीत्याह न चेति । 'भवन्मते' इत्यनेन सचितं विशेष विशदयति-न हीति । 'द्रव्यस्वरूपस्य कारणस्वे सर्वदा तदुत्पादप्रसङ्गः' इत्यादि (पुट 352) खलूक्तमित्यर्थः। नन तर्हि नित्यातीन्द्रियस्यात्मनः कथमनुमानं भवन्मते ? इत्यत्राह -- आत्मानुमान इति। न हि तत्र हेतुसाध्ययोाप्तिरदृष्टा। आश्रितत्वसामान्यस्य साध्यत्वेन कार्यत्वसामान्यस्य च हेतुत्वेन तयोः घटादौ प्रत्यक्षतस्सहचारदर्शनात् युज्यत आत्मानुमानमिति ॥
संयोगविभागात्मक देशान्तरमाप्त्या क्रियानुमानं निरस्य केवलसंयोगेन क्रियानुमानं दूषयति-न चेति। संयोगान्तं कति। उत्तरदेशसंयोगोस्पत्त्यां सत्यां क्रियाकार्य निवृत्तमिति क्रियोपरमः सम्मत: इत्यर्थः। संयोगाननुमेयत्वे हेतु:---वर्तमानाया इति । क्रिया हि संयोगोत्परया उपरता ।