________________
आह्निकम् २]
क्रियाया अतिरिक्तत्वसाधनम्
चलतीति प्रत्ययो दृष्टः । तस्मात् क्रियाविषय एव चलतीतिप्रत्ययः, न संयोगविभागालम्बनः ॥
संयोगविभागाग्रहणेऽपि च निरालम्बे विहायसि विहरति विहङ्गमे चलतीति संवेदनं दृश्यते । न च गंगनसंयोगः प्रत्यक्षः, प्रत्यक्षेतरवृत्तित्वात् गन्धवह महीरुहसंयोगवत् ॥
विततालोकावयव्याकाशः, तत्संयोगश्च पत्रिणः प्रत्यक्ष इति
चेत्-नैतदेवम्
355
तमालनीलजीमूतसमूह पिहिताम्बरे ।
निशीथे सान्धकारेsपि चलत्खद्योतदर्शनात् ॥ २५५ ॥ न तत्रालोकावयवी 'कश्चन' तिमिरावयवी वा विद्यते इति केन संयोगो-गृह्यते ? विभागो वा ?
संयोगविभागा हि अनवरतं तत्तीरगते पाषाणे वर्तन्ते ॥
अथ चलतीति प्रत्ययस्य संयोगविभागालम्बनत्वमपि न संभवतीत्याह-संयोगेति । संयोगविभागयोर्ह्रिनिष्टत्वेन तत्र द्वितीयं वस्त्वेवैन्द्वियिकं नास्तीति सूचनाय -- निरालम्ब इत्युक्तम् ॥
ननु तत्र पक्षिणि क्रिया हि भवतोऽपि सम्मता । क्रियायां जातायां हि विभागसंयोगाववर्जनीयाविति पूर्व भवतैवोक्तम् । तथा च तत्र संयोगविभाग• योरभावो न वक्तुं शक्यते । एवं सति ' निरालम्बे ' इति कथमिति चेत्-अस्ति तत्र संयोगादिः आकाशप्रदेशेन सह । परन्त्वाकाशस्यातीन्द्रियत्वेन संयोगप्रत्यक्षासंभवात् संयोगप्रत्यक्षहेतुभूतस्य संयोगाधारस्य प्रत्यक्षद्रव्यस्याभावात् निरालम्बत्वम् । तथा च तत्र क्रियातः संयोगविभागानुमानम्, न तु संयोगविभागाभ्यां क्रियानुमानमिति द्रष्टव्यम् । एतदेवोच्यते - न चेत्यादिना । नन्वस्ति तत्राप्यालोकः प्रत्यक्षः इति शङ्कते - विततेति । मालोकानामतीन्द्रियत्वेन -- अवयवीत्युक्तम् । नक्षत्रालोकस्याप्यसंभवद्योतनाय - तमालेत्यादि । आलोकावयवी - चलत्खद्योतालोक संयोगाश्रयः । ननु तिमिरेण सहास्ति संयोग: खद्योतप्रकाशस्येति चेत् तत्राह -- - तिमिरेति । तिमिरं खल्वभावरूपमित्यर्थः ॥
परमाणुरूपाणा
न च कथन- ख.
23*