________________
354 अनुमानत्रैविध्यम्
[म्यायमञ्जरी वर्तमानयोर्ग्रहणम् । तौ च नलित्वाऽपि स्थिते देवदत्ते स्त इति तत्रापि कथं न चलतीति प्रत्ययः ॥
निरन्तरं च संयोगविभागश्रेणिदर्शनात् । भूमावपि भवेद्वद्धिः चलतीति मनुष्यवत् ॥ २५४ ॥
[क्रिया न संयोगविभागरूपा] अथ मनुषे यत्क्रियाजन्यत्वं संयोगविभागयोः - तत्रैव चलतीत्यादिबुद्धिः, नान्यत्र । देवदत्तक्रियया च तौ जन्येते, न निष्क्रियया भूम्येति न तस्यां तथा प्रत्ययः । यद्येवं-क्रियान्वयव्यतिरेकानुविधानात् क्रियालम्बन एवायं प्रत्ययः, न संयोगविभागालम्बनः । तदालम्बनन्वे हि तयोर्द्वयवृत्तित्वाविशेषात् विशेषे कारणं वाच्यम् । येन पुरुष एवायं प्रत्ययः, न भूमाविति । देवदत्तक्रियाजन्यत्वेन तु न विशेषः, यतः क्रियायाः परोक्षत्वे सति तदेव न विद्मः-किमसौ देवदत्ताश्रया क्रिया ? किं वा भूम्याश्रितेति ? संयोगविभागकार्यानुमानस्योभयत्रापि तुल्यत्वात् । न च देवदत्ते गच्छति भूमौ, अनवरतवह'दहल'संयोगविभागवत्यपि वा तरङ्गिणीतीरपाषाणे शब्दः । आस्तां वर्तमानयोरेवेत्यादि । तथा च किं प्रकृते ? इत्यत्राह- तौ चेति। पूर्व ‘अपि 'शब्देन सर्वत्र तदसंभवे सूचिते, यत्र संभवेत्तत्र तथास्तु इति वदन्तं प्रत्याह-निरन्तरमिति । असंख्येयजङ्गमवर्गसंकुले भूतले न तहर्लभं, चलतीति प्रतीतिस्तु नास्ति । अतस्तावन्मात्रविषयत्वं न तत्प्रतीतेरिति ॥
प्राणिसंयोगादिना भूम्यादौ चलतीतिमत्ययाभावं समर्थयति- अथेत्या. दिना। यत्क्रियेति- यदीयक्रियेत्यर्थः । समाधने–यद्यवमिति । द्वयेति। संयोगविभागौ हि द्विनिष्ठौ । विशेषे–देवदत्त एव चलतिप्रत्ययः, न भूमावित्यत्र । ननूक्तं यदीया क्रिया, तत्रैव चलतिप्रतीतिरितीति चेत् तत्राहदेवदत्तति । अयं भावः-क्रिया ह्यतीन्द्रिया तव, सा च संयोगविभागानमेया। संयोगविभागौ तु द्विनिष्ठौ। हेतुभूतौ तौ एकत्रैव क्रियामनुमापयतः, न तूभयत्रेत्यत्र न किञ्चिद्विनिगमकम् । क्रियायास्त्वनुमेयत्वान्न विनिगमकत्वम् । अतोऽगत्या क्रियायाः प्रत्यक्षत्वमेवाङ्गीकरणीयमिति । 'न विद्मः' इत्यत्रोक्तं वेदनं विवृणोति-किमसाविति । तरङ्गिणीत्यादि। नदीप्रवाहाधीनजल
दात-ख.