________________
माहिकम् २] क्रियायाः प्रलक्षत्वसमर्थनम्
363 एवं शक्तावपि द्रष्टव्यम्। क्रियाशक्तिस्वरूपस्य च नित्यपरो. क्षत्वात् तददृष्टस्वलक्षणविषयमनुमानमुच्यते, न तु विशेषविषयम; विशेषव्याप्तग्रहणस्यासंभवादिति ॥
[क्रियायाः प्रत्यक्षत्वम् ] तदिदमनुरपन्नम्-परिस्पन्दरूपस्योत्क्षेपणादिभेदवतः कर्मणश्चलत्यादिप्रतीतौ प्रकाशमानत्वेन प्रत्यक्षत्वान् न तस्य नित्यानुमेयत्वम्। संयोगविभागालम्बनत्वे तु संयुज्यते, विभज्यते, इति प्रतीतिः स्यात् , न चलतीति; यथाविषयं प्रत्ययोत्पादात् । संवेदनानुसारिणी च विषयव्यवस्था। अन्यथा घटप्रत्ययेऽपि 'पट'स्यालम्बनता स्यात् । संयोगविभागालम्धनत्वे सति तिष्ठत्यपि चलत्प्रत्ययः प्राप्नोति; तत्रापि संयोगविभागसंभवात्। स्थाणी च श्येन संयोगविभागवति चलतीतिप्रतिभासो भवेत्। अविरलतदुपजननप्रवन्धेऽपि भूतभाविनोः संयोगावभागयोः परोक्षत्वात्
संयोगविभागादिहेतुतयैव क्रिया सिद्धयतीति भावः । क्रियाशक्ति- इत्यत्र दृष्टान्ततया क्रियोपादानम् ॥
___एवं क्रियाया अतीन्द्रियत्वं प्राभाकरानुसारेण पूर्वपक्षितम् । कुमारिलभट्टैस्तु --.' प्रत्यक्षदृष्टः सम्बन्धः गतिप्राप्त्योस्तथैव हि ' (१३८ श्लो.) इत्यादिना क्रियाया: प्रत्यक्षत्व क्तम्। तत्र सुचरितमित्रैर्बह्वथा युक्तयः प्रदर्शिताः । तद्रीस्यैव सिद्धान्तेऽपि क्रियायाः प्रत्यक्षत्वं साधयितुमुपक्रसते-तदिदांमत्यादि। चलत्यादिप्रतीतो- चलतीत्यादिप्रतीतौ। संयोगविभागालम्बनत्वे-- चलतीतिप्रत्ययस्येति शेषः। घटप्रत्यये-घटोलेखिप्रत्यये। तत्रापीति । तिष्ठत्यपि वस्तुनि भूतकालिकयोः संयोगविभागयोस्सत्त्वादित्यर्थः। ननु तयोर्वर्तमानत्वमावश्यकमिति चेत् तदाप्याह- स्थाणाविति। ननु सकृत्तयोरुत्पत्तिमात्रान चलतीतिप्रतीतिः, किन्तु निरन्तरतत्परंपरोत्पत्तावेवइति चेत् तत्राह-अविरलेति। तादृशप्रबन्धे चलतिप्रत्ययविषयत्वेनांगीकृतेऽपीत्यर्थ । अथवा अविरलः तादृशप्रबन्धः- अनुवृत्ति: यस्मिः इति बहुव्रीहिः। वस्तुनि तयोस्संभवेऽपि अतीतानागतयोर्ग्रहणं न संभवतीति भावः । एतादृशाविरलसंयोगाद्युत्पत्तिरपि सर्वत्र शपथमात्रनिणेयेति सूचनाय-अपि
1 पर-ख. NYAYANANJARI
23