________________
352 अनुमानत्रैविध्यम्
[न्यायमञ्जरी चलतीति प्रत्यये हि न देवदत्तस्वरूपातिरिक्तक्रियातत्वप्रतिभासः ॥
य एव देवदत्तात्मा तिष्ठत्प्रत्ययगोचरः।
चलतीत्यपि संवित्तौ स एव प्रतिभासते ॥ २५३ ॥
अविरलसमुल्लसत्संयोगविभागप्रबन्धविषयत्वाञ्चलतीतिप्रत्य - यस्य न सर्वदा तदुत्पादः ॥ __ कथं तर्हि नित्यपरोक्षे क्रियास्वलक्षणेऽनुमानं क्रमत इति चेत् ? कार्यस्य कादाचित्कत्वेन कारणपूर्वकत्वात् परिदृश्यमानस्य द्रव्य स्वरूपस्य कारणत्वे सर्वदा कार्योत्पादनप्रसङ्गात् सर्वदा तत्स्वरूपसद्भावात् , न च सर्वदा कार्यमुत्पद्यत इति तदतिरिक्तक्रियानुमानम्॥ भावात् ' (1-1-20) इति सूत्रभाष्ये 'बुद्धिकर्मणी' इति प्रकृत्य न हि ते प्रत्यक्षे' इति स्पष्टं बुद्धेरिव कर्मणोऽप्यप्रत्यक्षत्वमुक्तम् । भाष्यकारोऽपि आद्यानुमाने 'प्रत्यक्षत' इति विशेषयन्निदं द्रढयति । अतश्च प्रकृते देवदत्तक्रियाऽप्यनुमेयैव भाष्यकारसम्मता : लोके सवैनिश्चितत्वात् तस्या दृष्टान्तत्वेनोपादानम् । अत्र च ' उपलभ्य' इति पदं देशान्तरप्राप्तिमात्रेऽन्धेति । 'धूमावह्निमुपलभ्य' इत्यादाविवानुभवसामान्यपरं वा । अत: कर्माप्रत्यक्षमित्येव भाष्यकारसम्मतमिति । ननु लोके क्रियाविषयिणी चलतीत्यादिप्रतीतिर्दृश्यते । भाष्यकारो वा अनुभवविरुद्धं कथं ब्रयादित्यत्र-कर्मप्रत्यक्षत्वं युक्तिविरुद्धमिन्याह-- चलतीत्यादि। न हि चलतीति प्रत्ययमांत्रेण देवदत्ते उपचयो वाऽपचयो वा कश्चन अतिरिक्तो विशेषो दृश्यते । अतः. देवदत्ते कर्म न प्रत्यक्षम् । किन्तु तस्य तद्धस्तादेर्वा देशान्तरप्राप्तिः प्रत्यक्षा, तया च क्रियाऽनुमीयत इति ॥
ननु यदि तिष्ठञ्चलदेवदत्तयोर्न कोऽपि विशेषः तर्हि तिष्टत्यपि देवदत्ते चलतीति प्रत्ययापत्तिः---इत्यत्राह -- अविरलेति । एकस्यां क्रियायामुत्पन्नायां हि क्रिया, क्रियातो विभागः, तत: पूर्वसंगोगनाश:, तत उत्तरदेशसंयोग इति शृंखलाऽवर्जनीया। अत उक्तं अविरलेति प्रबन्धेतिच। एवञ्च विभागोत्तरदेशसंयोगादिकं परं प्रत्यक्षं न तु तदतिरिक्ता काचित्क्रिया प्रत्यक्षा । उत्तरदेशसंयोगश्च उत्तरदेशप्राप्तिरेव । अतस्सुष्टुक्तं देशान्तरप्राप्तया क्रियाऽनुमीयत इति । नित्यं परोक्षे इत्यर्थः । एवं तर्हि क्रियाया अनङ्गीकारे वा का हानिः इति भावः। समाधत्ते--कार्यस्येत्यादि। देशान्तरप्राप्ति- . रूपस्येति शेषः । द्रव्यस्वरूपस्य-द्रव्यस्वरूपमात्रस्य । तथा च उत्तरदेश