________________
आह्निकम् २]
प्रभाकरोक्तसामान्यतादृष्टानुमानम्
361
षेधेन विशिष्टाश्रयकल्पने तदेव परिशेषानुमानम्। अनुमेयस्य नित्यपरोक्षत्वात् तदेव सामान्यतो'दृष्टं च ॥
तह परिशेषानुमानस्य सामान्यतोदृष्टस्य च को विशेषः ? उच्यते --परिशेषानुमानप्रवृत्तावन्यः पन्थाः; सामान्यतोदृष्टस्यान्यः । इच्छादिकार्य देहादिविलक्षणाश्रयम् - शरीरादिषु बाधकप्रमाणोपपत्तौ सत्यां कार्यत्वादिति सामान्यतोदृष्टस्य क्रमः। परिशेषानुपानस्य वित्थं प्रवृत्तिः--इच्छादेराश्रयत्वेन प्रसक्तानि शरीरेन्द्रियमनांसि निषिध्यन्ते, दिक्कालादौ च तत्प्रसङ्गो नास्ति, तत्पारिशेष्यादात्मैव तदाश्रय इति। परिशेषानुमाने च सर्वत्र नैध नियमः-- साध्यस्यातिपरोक्षत्वमिति; गोमयाग्निकल्पनादिदर्शनात् । सामा. न्यतोदृष्टं तु नित्यपरोक्षविषयमेवेति सूक्तं वैविध्यम् ॥
__ . [प्रभाकरोक्तसामान्यतोदृष्टानुमानम् ]
अपरे पुनः अदृष्यस्वलक्षणविषयं शक्तिकियानुमानं सामान्यतोदृष्टमुदाहरन्ति; देवदत्तादावपि क्रियायाः परोक्षत्वात् । न्द्रियत्वम् । विशिष्टाश्रयः-आत्मरूपः ॥
को विशेष इति । हेतुमाध्यव्यक्त्योाप्तयग्रहणेन पूर्ववतो वैलक्षण्यसत्वेऽपि सामान्तोदृष्टान्न विशेषः, अतीन्द्रियसाध्यकस्य तौल्यादित्यर्थः ।
अन्यः पन्था इत्यादि। प्रसक्तप्रतिषेधः परिशेषानुमानस्यासाधारणं कृत्यम् । '. तेन शिष्यमाणे संप्रत्ययश्च । सामान्यतोदृष्टे तु अन्यप्रसक्तिरेव न इति विशेषः ॥
शबरस्वामिना--'तत्तु द्विविध ; प्रत्यक्षतो दृष्टसम्बन्धं, सामान्यतो दृष्टसम्बन्धं च' इत्युक्त भाष्ये । एतयाख्यातृभिः प्रभाकरमित्रैः बृहत्या-'अदृष्टस्वलक्षणविषयमनुम नमस्ति क्रियादिषु' इत्युक्तम् । बृहतीव्याख्यातृभिः शालिकनाथश्च'क्रियादिषु क्रियायो शक्तौ च इत्यनेन बृहत्युक्तेन 'आदि पदेन शक्तेस्संग्रहः प्रदर्शितः। प्रकरणपञ्चिकायां च अयमर्थ: विस्तरेण निरूपितः । एतत्सर्वमालोड्याह -अपरे पुनरिति । स्वलक्षण-स्वासाधारणं स्वरूपम् । ननु भाष्ये 'सामान्यतोदृष्टसम्बन्धं यथा-- देवदत्तस्य गतिपूर्विका देशान्तरप्राप्तिमुपलभ्यादित्यगतिस्मरणम्' इति कथनात् देवदत्तक्रियायाः प्रत्यक्षत्वमुक्तम् , तत कथं क्रियाया अनुमेयत्वम् ? इत्यत्राह-देवदत्तादावपीति । 'संख्य,
'दृष्टमुच्यते-क. ननु परिशेषस्य-ख.