________________
350
अनुमानत्रैविध्यम्
( न्यायमभरी
• ननु ! धूमान्तरेण वह्नयन्तरानुमानं किं न प्रत्यक्षपूर्वकम् ? क एकमाह-न पूर्ववदिति । कथं तहींदमुच्यते - तेनैव धूमेनेति ? जात्यभिप्रायमेतदुच्यते, न व्यक्तयभिप्रायम् ॥
ननु ! सामान्यतस्तर्हि तत्परिच्छेदात् सामान्यतोदृष्टमेवेदं स्यात् न-- सामान्यतोदृष्टस्य नित्यपरोक्षानुमेयैक विषयत्वात् ॥
प्रसक्तप्रतिषेधादिना च नियतसाध्यपरिच्छेदहेतुः परिशेषानु-मानमुच्यते - यथा गोमयेन्धनदहनानुमानमुदाहृतम्, शब्दे वा गुणत्वकल्पनम् ॥
सामान्यतोहं तु नित्यपरोक्ष विषयमुदाहृतमेव श्रोत्राद्यनुमानम् । तदेवं भेदसंभवात् त्रिविधमनुमानमिति युक्तम् ॥
[ एकस्मिन्नपि विषये त्रिविधानुमानसंभवः ]
आस्तां वा उदाहरणभेदः । एकत्राप्युदाहरणे वैविध्यमभिधातुं शक्यते । यथा - इच्छादिकार्य-आश्रितम् कार्यत्वात् घटवत् इत्याश्रयमात्रे साध्ये पूर्ववदनुमानम् ! प्रसक्तशरीरेन्द्रियाद्याश्रयप्रति
' तेनैव धूमेन' इत्यादेस्तद्व्यक्तिपरत्वं भ्राम्यन् पृच्छति - नन्विति ॥ अत्र आदिपदेन अन्यत्राप्रसङ्गस्य ग्रहणम्, प्रतिषेधमात्रं तु तुच्छस्यापि वर्तते । यथेत्यादि । अयं वह्निः गोमयेन्धन तृणाद्यजन्यत्वे सति इन्धनजन्यत्वात् ; शब्दः, गुणः, द्रव्यायनात्मकत्वे सति प्रमेयत्वात् इत्यादौ हि हेतु माध्यव्यक्त्योर्व्याप्तिरेव नास्ति, नापि अतीन्द्रियसाध्यकत्वम् । परिशेषस्वरूपं तु तत्प्रकरणे (१० आह्निके) परीक्ष्यते ॥
इच्छादीति । इच्छादिकं आत्माश्रितं आत्मव्यतिरिक्तानाश्रितत्वे सति आश्रितत्वात् इति परिशेषानुमाने विशेष्यासिद्धिवारणाय - इच्छादि, आश्रितं, कार्यत्वात् घटवत् इति प्रयोगे इदं पूर्ववदनुमानम् । अत्र - -यदितरानाश्रयत्वे सति आश्रितत्वं यत्रं तत्र तदाश्रितत्वं, कपालेतरानाश्रितः आश्रितश्च घटः कपालाश्रितः इति व्याप्तेः प्रयोगात् सामान्यतोदृष्टमपि भवति, विशेषव्याप्तेदुर्वचत्वात् साध्यनिविष्टः आत्मा हि अतीन्द्रियः । यद्यपि तत्तदात्मा तस्य तस्य प्रत्यक्षः, अथापि भात्मसामान्यस्यैव साध्ये निविष्टत्वात्तदती