________________
आह्निकम् २]
अनुमानत्रैविध्याक्षेपपरिहारौ
गमकं भवति । विशेषाणामनन्तत्वेन च तदन्वयव्यतिरेकयोर्दुरवगमत्वात् सर्वत्र सामान्येनैव व्याप्तिग्रहणम् । यच्चेत्थं व्याप्तिज्ञानं तत्तुल्यं त्रितयेऽपि । अतः सर्व पूर्ववदेव स्यात् ; वतेः सर्वत्र संभवात् ॥ तदेतदयुक्तम् - अवान्तर विशेषस्य सुस्पष्टस्य भावात् । 'व्याप्तिपूर्वकमनुमानम्' इत्येतावता यद्येकविधमुच्यते - तत्सत्यमेवं प्रकारमेवेदम् । तस्मिन् सत्यपि तु साम्ये भेदान्तरसंभवात् वैविध्यमस्य प्रतिपाद्यते ॥
349
तथा हि-धूमज्वलनयोः पूर्व प्रत्यक्षेण ग्रहणात् इदानीं तेनैव धूमेन स एवाग्निरनुमीयत इति पूर्ववदिदमनुमानमुच्यते - यत् प्रत्यक्ष पूर्वकमिति प्रसिद्धम् ॥
प्रत्यक्षपू.कमेव, दृष्टम्, पूर्वदर्शनानुरोधेनैवानुमानप्रवृत्तेः सर्वं पूर्ववदेवेति इत अनुमाने नावशिष्येते इत्यर्थः । ननु पूर्ववदनुमानं वह्निधूमादिव्यक्तिविषयकं, सामान्यतोदृष्टं तु न व्यक्त्याश्रितं, किन्तु सामान्याश्रितमित्यस्ति विशेष इति चेत् तत्राह - विशेषाणामिनि । वह्निधूमव्यक्तीनाम सर्वज्ञदुर्विज्ञेयत्वेन
तत्रापि व्याप्तिः सामान्याश्रितैवोपपादिता पूर्वमेव ॥
अवान्तरेत्यादि । अयं भावः - ' । पूर्ववत्' पदेन प्रत्यक्ष पूर्व कत्वमात्रं नोच्यते ; तस्य सामान्यलक्षणरूपत्वेन अनुमानत्रयानुगतत्वात् । किन्तु प्रत्यक्षपूर्वकत्वेऽपि किञ्चित्किञ्चिद्वैलक्षण्यात् विभागः प्रदर्शितः । विभागस्थले सर्वत्रापि खल्वेवमेव । तत्र यज्जातीययोर्व्याप्तिदर्शनं तज्ज्ञातीयस्यैव साध्यस्य सिद्धि: पूर्ववदित्युच्यते । महानसे दृष्टजातीयस्यैव वह्नेः पर्वतेऽनुमानात् । नात्र साध्यं सर्वदाऽतीन्द्रियम् ; व्याप्तिग्रहणवेलायां, पर्वतसमीपगमने वा प्रत्यक्षमेव तत् । • सामान्यतोदृष्टानुमाने तु साध्यं सर्वदाऽतीन्द्रियमेव, दृष्टसजातीयमपि न । न हि
यादीनां छेदन करणत्वं यादृशं तादृशमेव उपलब्धिकरणत्वं श्रोत्रस्य । छेदनक्रियातोऽत्यन्तविलक्षणा हि ज्ञानरूपक्रिया । अतस्तत्र दृष्टसजातीयत्वं नास्त्येव । नदियो धूमवान् स वह्निमान् इतिवत् यः शब्दसाक्षात्कार: स: श्रोत्रकरणकः इति हेतुसाध्यव्यक्तयोर्व्याप्तिरवगन्तुं शक्यते श्रोत्रेन्द्रियस्यातीन्द्रियत्वात् । तथा च पूर्ववदनुमाने व्यक्तयोरेव व्याप्तिः, अनुगमकतया तु सामान्यं प्रविशते । सामान्यतोदृष्टानुमाने तु सामान्यमेव पुरतो भाति, आश्रयतया परं व्यक्तिभानमिति अनुभववैलक्षण्यमस्तीति । परिशेषानुमानस्य वैलक्षण्यं तु स्पष्टमेव ॥