________________
348
अनुमानत्रैविध्यम्
न्यायमारी
[' शेषवत् 'पदव्याख्यानम् ] शेषवनाम परिशेषः। स च प्रसक्तप्रतिषेधे अन्यत्राप्रसङ्गात शिष्यमाणे संप्रत्ययः। यथा-क्वचित्प्रदेशे धूमेनाग्निमात्रेऽनुमिते, किमिन्धनोऽयमग्निः इति विमर्श प्रसक्तानां तृणपर्णकाष्ठादीनां अग्रसङ्गाच्च गोमयेन्धनोऽग्निः परिकल्प्यते। यथा वा-शब्दे द्रव्यकर्मत्वप्रतिषेधात सामान्यादावप्रसङ्गाच्च गुणत्वानुमानं वक्ष्यते ॥ ..
[सामान्यतोदृष्ट' पदव्याख्यानम्] - सामान्यतोदृष्टं तु-यत्र सम्बन्धकालेऽपि 'लिङ्गि'स्वरूपमप्रत्यक्षं-नित्यपरोक्षमेव सामान्यतो व्याप्तिग्रहणादनुमीयते- यथा शब्दाधुपलब्ध्या श्रोत्रादि करणम्। इन्द्रियाणामीन्द्रियत्वात न कदाचित् प्रत्यक्षगम्यत्वम् । अथ च छेदनादिक्रियाणां परश्वधादिकरणपूर्वकत्वेन व्याप्तिग्रहणात् शब्दाद्युपलब्धिक्रियाणां 'करणपूर्वकत्वमनुमीयते ॥
[अनुमानानां प्रत्यक्षपूर्वकत्वेऽपि त्रिविधत्वोपपादनम् ] अत्र 'वति 'व्याख्याने चोदयन्ति । पूर्ववदेवमेकमनुमानमुक्तं स्यात्, न त्रिविधम् । यतो न तावदनवगतव्याप्तिकं लिङ्गं
अग्निमात्रे--- अग्निसामान्ये । गोमय --- 'गोश्च पुरीषे' इति मयट् । प्रकृते शुष्कं गोमयं -- करीषो विवक्षितः । अयं परिशेषः प्रत्यक्षमूलक एव बहुल इत्यतो दृष्टान्तान्तरमाह-द्रव्येत्यादि । शब्दो गुणः द्रव्यादिषट्कानात्मकत्वे सति पदार्थत्वात् इति परिशेषानुमानम्। तत्र, शब्दो न द्रव्यं, एकद्रव्यसमवेतत्वात् ; न कर्म स्वसजातीयशब्दान्तरजनकत्वात् ; न सामान्यादि: जातिमत्वात् इत्यनुमान ज्ञेयम् । विस्तरस्तु तत्प्रकरणे वक्ष्यते ॥
सम्बन्धकाले -- सम्बन्धग्रहणकाले। सम्बन्धः-ध्याप्तिः। कदाचित्-कदाचिदपि। छेदनादि परश्वधादि इति निदर्शनार्थम् । तथा च क्रियाणां करणपूर्वकत्वनियमादित्यर्थः। क्रिया-धास्वर्थः ॥
एवं-'पूर्ववत् 'पदस्य एवं व्याख्याने । पूर्वोक्तं सर्वमप्यनुमान
लिङ्ग-ख. 'करणपूर्वकत्वेन व्याप्तिग्रहणात् शम्दाधुपलग्धिक्रियाणां करण-क.