________________
आह्निकम् २ ]
प्रकारान्तरेण पूर्ववदावनुमानम्
347
पूर्ववदिति । अत्र सम्बन्धग्रहणकाले लिङ्गलिङ्गिनोः प्रत्यक्षतः स्वरूपमवधार्य पुनस्तादृशैव लिङ्गेन तादृगेव लिङ्गी गम्यते, तत् पूर्वेण तुल्यं वर्तत इति पूर्व' वदनुमानम् । यथा - महानसे धूमानी सहचरितौ दृष्ट्वा पुनः पर्वते ॥ धूमाग्नयनुमानम्
[' पूर्ववत्' इत्यत्र ' वति' प्रत्ययोपपादनम् ]
ननु ! प्रत्यक्ष प्रतीत्या विषयगत सकल विशेष साक्षात्करणक्षमया तुल्या नानुमानिकी मतिरिति कथं क्रियातुल्यत्वम् ? तदभावात् कथं वतिः ? सत्यमेवम - तथाऽपि बहेरेव तादृशस्य वैलक्षण्यापादक. विशेषावच्छिन्नस्य लिङ्गेन ग्रहणात् अदूरविप्रकर्षेण क्रियातुल्यत्वमुपपत्स्यते ॥
.
पूर्वेणेति- -- तथा च ' तेन तुल्यं क्रिया चेद्वतिः' इति हि वतिः ॥
ननु 'क्रिया चेत्' इति सूत्रणात् क्रियाप्रयुक्ततौल्यमेव तत्र विवक्षितम् । प्रकृते च प्रत्यक्षस्य विषयप्रकाशनक्रिया यादृशी न तादृशी अनुमानस्य । प्रत्यक्ष हि स्वविषयं विशदत्तममुपस्थापयेत, अनुमानं तु विशदतरमेव । प्रत्यक्षस्यापरोक्षज्ञानत्वात् प्रत्यक्षेण वह्निग्रहणकाले तद्गतपरिमाणरूपस्पर्शसंख्यादिविशिष्ट भासते, न तथाऽनुमाने । अनुमानं हि परोक्षप्रमितिजनकम् । अतस्तुल्यक्रियत्वाभावान्न तुल्यार्थे वतिः प्रकृते युज्यते इति शङ्कते -- नन्विति । सत्यमिति । अयं भावः -! - पुरोवस्थितधर्मिणि यावन्तो धर्मा वर्तन्ते ते सर्वेऽपि न प्रत्यक्षेsपि भासन्ते । अतीन्द्रियाणां गुरुत्वादीनां तत्र भानासंभवात् । ऐन्द्रियकेष्वपि न सर्वे भासन्ते, किन्तु पुरुषापेक्षानुगुणमेव । न हि वह्निप्रत्यक्षत्वस्थले सर्वत्र तद्गततार्णत्वादिकमपि भासते । एवञ्च यावदपेक्षितधर्मविशिष्ट धर्मी प्रत्यक्षे भासते । अनुमितावपि तादृश एव भासते । प्रत्यक्षदृष्टवह्निसजातीयवह्निः खल्वनुमेयः । एवञ्च प्रत्यक्षानुमानयोरिदमेकमेव परं वैलक्षण्यं, आद्यं अपरोक्षजनक, द्वितीयं परोक्ष जनकम् । एवं स्वरूपवैलक्षण्ये सत्यपि विषयप्रकाशनांदो नात्यन्तवैलक्षण्यम्, संशयविपर्ययाद्यतीतप्रारूपत्वादुभयोरपि । अतश्च प्रत्यक्षानुमानयो: विप्रकर्षः - वैलक्षण्यं विषयप्रकाशन – नाती वर्तत इति पूर्ववत् - प्रत्यक्षतुल्यं अनुमानं भवत्येव ॥
' पूर्व-क.
2
क्षात्का - क.