________________
346
प्रकारान्तरेण अनुमानत्रैविध्यम न्यायमञ्जरी नित्या काचित् ; अपि तु स्वरूपसहकारिस्वभावैवेति 'दृश्यमानं स्वरूपमपि शक्ति वर्ग पतति । दृश्यमानं च देशान्तरप्राप्तयात्मकमिति गतिकार्यम् ॥ ___ एवं दर्शनशब्दवाच्यत्वेऽपि हेतूकृते वक्तव्यम् । गत्या देशान्तरप्राप्तिर्जन्यते, तया तत्र दर्शनम् , तेन शब्दप्रयोगः, स एव वाच्यत्वमिति भावप्रत्ययेनोक्तः। तस्मात् सर्वथा गतिकार्यत्वानपायात् शेषवदेवेदमनुमानम्॥
तदेतद्भाष्यकारीयमुदाहरणमीदृशम् । .. रूपाद्रसानुमानं तु तस्माद्युक्तमुदाहृतम् ॥ २५१ ॥ अकार्यकारणप्रायहेतूनां च प्रदर्शितः। भदन्तकलहेऽस्माभिरुदाहरणविस्तरः ।। २५२ ॥
[प्रकारान्तरेण सूत्रव्याख्यानम् ] एवं तावन्मतुब्ब्याख्यया त्रैविध्यमनुमानस्य वर्णितम्। एतत्त फल्गुणाय मिव मन्यन्ते । नियमात्मकसम्बन्धबलादेव लिङ्गस्य गमकत्वमुक्तम , न कार्यादिस्वरूपेण । तत्किमीशत्रैविध्येन दर्शितेनेति वतिप्रत्ययमाश्रित्यान्यथा व्याचक्षते ॥ तादृशदर्शनत्वं तु नीलघटस्वादिवत् न जाति:, अन्यथा देवदत्तदेशान्तरदर्शनस्वादीनामपि जातिरूपताप्रसङ्गः ॥
शेषवदेवेति । वाचस्पतिमिश्नोऽप्येवमेवाह । परन्तु सूर्यगतेः नित्यातीन्द्रियत्वेन न कदापि तत्र गतिदेशान्तरप्राप्तयादीनां कार्यकारणभावः गृहीतुं शक्य इत्येतावन्मात्रेण तस्य सामान्यतोदृष्टत्वमुक्तं भाष्ये। उत्तरत्रापि (पु. 348) इदं द्रष्टव्यम् ॥
भदन्तकलहे-बौद्धमतनिराकरणे (पु. 307) ॥
न कार्यादीति । तादात्म्यतदुत्पत्तिभ्यामनुमान बौद्धानामेव, तत्तु खण्डितमेवेति वस्तुगत्या पन्नपि कार्यकारणभावः प्रकृतेऽनुपयुक्त एवेत्यर्थः ॥
1दृश्यमानं-ख.
क-क.