________________
345
आह्निकम २
सामान्यतोदृष्टानुमानम् अपि च देशान्तरप्राप्तिर्देशान्तरसंयोगः। न च दशशतांशोदेशान्तरेण शैलादिना संयोगः संभवति। नभला तु भवन्नपि दिशा वा दुर्लक्ष्यः, प्रत्यक्षेतरवृत्तित्वात् ; पवनवनस्पतिसंयोगवत् मातृगर्भसंयोगवद्वा॥ ____ अथ देशान्त'रे' तरणिदर्शनं हेतुरुच्यते, तस्यापि गतिकार्यता पारम्पर्येण विद्यत एव-गत्या प्राप्तिः, प्राप्तया च तत्र दर्शन मिति ॥
अथ देशान्तरे तपन दर्शनं पक्षीकृत्य दर्शनत्वेन च, दर्शनशब्दवाच्यत्वेन 'वा तस्य गतिपूर्वकत्वमनुमीयते-देशान्तरे दिवाकरदर्शनं गतिपूर्वकम, देशान्तरदर्शनत्वात्-तच्छब्दवाच्यत्वाद्वा, देवदत्तदेशान्तरदर्शनवदिति ; तथापि पारम्पर्येण गतिकार्यता न निवर्तत एव । न हि दर्शनत्वं गोत्वादिवत् सामान्यमस्ति; किन्तु भावप्रत्ययेनात्र दर्शनोत्पादिका शक्तिरुच्यते। सा च नातीन्द्रिया
वस्तुत: सूर्यस्य देशविशेषप्राप्तेहेतुत्वमेवासंभवीत्याह-अपि चेति । दशशतांशुः-सहस्रकिरणः सूर्यः। उदयाचलायभिप्रायेण-शैलादिनेत्युतम्। अयमर्थः ---अत्र देशपदार्थः भूविशेषः? उताकाशः ? उत दिक् ? नाय: तपोसम्बन्धाभावात् । नान्त्यौ, आकाशदिशोरतीन्द्रियत्न संयोगिनोरन्यतरस्यातीन्द्रियत्वे तत्संयोगस्याप्यतीन्द्रियत्वात् । वायुवृक्षसंयोगवत् , मातृगर्भसंयोगवद्वा। तथा च देशान्तरप्राप्तेरतीन्द्रियत्वेन न तेन सूर्यगत्यनुमानं संभवेत् । नभसा दिशा वा तु–इत्यन्वयः ॥
अथेति । देशपदार्थः यः कोऽपि भवतु, देशान्तरे दृष्टस्य देशान्तरे दर्शनं तु दुरपह्नवमित्यर्थः ॥
पूर्वोक्तदिशा देशान्तरस्यैवातीन्द्रियत्वे देशान्तरदर्शनमप्यसंभवीत्यत:दर्शनशब्दवाच्यत्वेनेति। न ह्यत्र गतिपूर्वकस्वस्य दर्शनस्य च कार्यकारणभावोऽस्ति, दर्शनं प्रतीन्द्रियादेरेव कारणस्वादिति भावः । गतिकार्यतेति । हेतुभूतस्य दर्शनत्वस्येति शेषः । पारंपर्येण गतिकार्यत्वं दर्शनत्वस्योपपादयति-. न हीति। दर्शनत्वं-देशान्तरे दिनकरदर्शनम् । तथा च ज्ञानत्वं प्रत्यक्षत्वं वा जातिरूपं भवेदपि, देशान्तराधिकरणकदिनकरविषयकचाक्षुषस्वरूपं
'र-क.
उपवने-ख, तप-क.
च वा-ख.