SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 344 अनुमानत्रैविध्वम् [न्यायमचारी [सामान्यतोदृष्ट' पदव्याख्यानम्] - सामान्यतोदृष्टं तु-यत् अकार्यकारणभूताल्लिङ्गात् 'तादृशस्यैव लिङ्गिनोऽनुमानम्-यथा कपित्थादौ रूपेण रसानुमानम् । रूपरसयोः समवायिकारणमेकं कपित्थादिद्रव्यम् , न तु तयोरन्योन्यं कार्यकारणभावः॥ शाक्यदृष्टयाऽपि वर्तमानयोः क्षणयोः इतरेतर कार्यकारणता न सम्भवत्येव ॥ धर्मिणश्च रूपवत्त्वेन रसवत्ताऽनुमानात् असिद्धयादिचोद्यानां पूर्ववदनवकाशो वक्तव्यः ॥ [भाष्यमदर्शितसामान्यतोदृष्टानुमानविमर्शः] यन्पुनर्भाष्यकारेण भास्करस्य देशान्तरप्राप्तया गत्यनुमानमुदा. हृतं-तदयुक्तम्-देशान्तरमार्गति'कार्यत्वात् कार्येण' कारणानुमानं शेषवदेवेदं स्यात् ॥ तादृशस्य कार्यकारणभावशून्यस्य ॥ शाक्येत्यादि । धर्मधर्मिभावमनभ्युपगच्छतोऽपि बौद्धस्य रूपक्षणरसक्षणयोः परस्परं कार्यकारणभावो न सम्मत इति चेत,' धर्म्यतिरिक्त धर्ममभ्युपगच्छतां सैद्धान्तिकानां का कथेति भावः॥ धर्मिण इत्यादि। कश्चिद्धर्मी केनचिद्धर्मेण किञ्चिद्धर्मवानेवानुमीयत इत्यादि पूर्वमेवोक्तम् ॥ गत्यनुमानं-- एकस्मिन् देशे दृष्टस्य देशान्तरे दर्शनं तद्वस्तुनः क्रिया. मनुमापयति । प्रात: पूर्वदिशि दृष्टस्य सूर्यस्य सायं पश्चिमदिशि दर्शनं सूर्यस्य देशान्तरमाप्तिमूलकं, तच्च गतिपूर्वक मिति–सूर्यः गतिमान् पूर्वकालिकदर्शनावच्छेदकदेशमिनदेशावच्छेदेन दर्शनविषयत्वात् -- इत्यनुमानं भाष्ये उक्तम् ॥ 1 तल्लि-क. कारणता-क, पौ-क. कार्येण-क.
SR No.002265
Book TitleNyayamanjari Part 01
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1969
Total Pages810
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy