________________
आडिकम् २] शेषषदनुमानम्
348 [कार्यानुमाने दोषोद्धारः] यत्तु सेतुभङ्गहिमविलयनादिनाऽपि नदीपूरोपपत्तिदृष्टेतितत्राप्युच्यते
आवर्तवर्तनाशालिविशालकलुषोदकः । कल्लोलविकटास्फालस्फुरत्फेटच्छटाश्चितः ॥ २४६ ॥ वहद्बहलशैवालवनशाद्वलसङ्कलः। नदीपूरविशेषोऽपि शक्येत न 'न' वेदितुम् ॥ २४७ ।। प्रमातुरपराधोऽयं विशेष यो न पश्यति । नानुमानस्य दोषोऽस्ति प्रमेयाव्यभिचारिणः ॥ २४८ ॥ रोधोपघातसादृश्यव्यभिचारनिबन्धनम्। अनुमानाप्रमाणत्वमतो वक्तुमसांप्रतम् ॥ २४९ ॥ पारंपर्येण वृष्टिश्च नदीपूरस्य कारणम्। पतद्धनपयोबिन्दुसन्दोहस्यन्दनक्रमात् ॥ २५० ॥
यादृशं मयूरवाशितं, न तादृशं पुरुषस्य । मन्दमतिभिरेषां वैलक्षण्याग्रहणे पुरुषस्यापराधोऽयं न हेतोः । अत: विलक्षणात् कार्यात् कारणानुमान युक्तमेवेति द्वितीयसूत्रार्थः ॥
- तदेतत्सर्व संगृह्णाति-यत्त्वित्यादि । प्रतिरुद्धस्य जलस्य प्रवहणहेतुः उक्तः-सेतुभङ्गः । एवमन्यदप्यूह्यमित्याह-हिमेत्यादि । सेतुभंगप्रावाहापेक्षया प्रवर्षजवृष्टे_लक्षण्यमाह-आवर्तेत्यादि । वर्तना--स्थितिः । ननु वृष्टेः प्रवाहस्य च कार्यकारणभावो नास्त्येव। वर्षणं नाम माकाशात् जलकणिकापतनम् । तस्य च कथं महाप्रवाहहेतुत्वम्। वृष्टिः खलु भूप्रदेशे। तस्मात्प्रसूतानां कुल्यादीनां नयां पतने नदी प्रवहते। अत: उभयोः कार्यकारणभावाभावात् कथमेतदनुमानम् ? इत्यत्राह-पारंपर्येणेति । पारंपरिकत्वमात्राम कारणत्वहानिः, व्यवहाराधीनत्वात् कार्यकारणभावस्य । म्यवहरति च तथैव सर्वोऽपि लोक इत्यर्थः ॥