________________
342 अनुमानत्रैविण्यम
[न्यायमचरी फलतस्त्वियं वाचो युक्तिः-कार्येण कारणमनुमीयते 'कारणेन कार्यमनमीयत इति: परमार्थतस्तु धर्मी धर्मवत्त्वेन धर्मवाननुमीयत इति स्थितिः। यदाह भट्टः (श्लो. वा. 1-1-5 अनु. 24)
‘स एव चोभयात्माऽयं गम्यो गमक एव च ।
असिद्धेनैकदेशेन गम्यः सिद्धन बोधकः' इति ॥ ननु सूत्रभाष्यादौ, 'कारणात् कार्यानुमानं पूर्ववत्, कार्यात् कारणानुमानं शेषवत्' इति कथ्यते ; भवता तत्तद्धर्मविशिष्टस्य धर्मिणः, देशत्य वाऽनुमानं तदित्युच्यत इति कथमिदमिति शङ्कायामाह--फलत इति। धर्मीत्यादि । कश्चिद्धर्मी केनचिद्धर्मेण किञ्चिद्धर्मवाननुमीयत इत्यर्थः । स एवेत्यादि । सोऽयं पक्ष एव उभयात्माहेतुविशिष्टस्वरूपः साध्यवत्स्वरूपश्चेति स एव गम्यः गमकश्च । एकस्यैव कथमुभयमित्यत्राह-असिद्धनेति। असिद्धेनैकदेशेन---धर्मेण, विशिष्टवस्तुन एकदेशो हि विशेषणम् , सः गम्यः-साध्यः, सिद्धेन चैकदेशेन-धर्मेण सः बोधकः-गमकः। अतश्च 'एकदेशविशिष्टश्च धर्खेवावानुमीयते ' (27 श्लो.)॥
अत्र 'रोधोपघातसादृश्येभ्यो व्यभिचारादनुमानमप्रमाणम् ' (२-२-३७) 'नैकदेशवाससादृश्येभ्योऽर्थान्तरभावात् ' (३७) इत्यत्र महर्षिणा अदनुमानपरीक्षणं कृतं तदत्रैव प्रसक्तत्वात्प्रदर्यते, न हि ग्रन्थकारेण सूत्रक्रम आद्रियते-- सूत्रयोश्चायमर्थः-कार्यात् कारणानुमानं न घटते । तद्धि, नदीपूरेण, पिपीलिकाण्डसंचारेण मयूररुतेन वा वृष्टयनुमानम् । एतत्सर्व व्यभिचरितमेव । नदीप्रवाहस्योपरि देशे सेतुबन्धादिनिरोधादपि वृष्टिशून्यकाले प्रवत् नदी। नीडोपघातादपि पिपीलिकाण्डसंचारो दृश्यते। मयूरवत् मनुष्येण कूजनमपि संभवेत् । अतो व्यभिचरितत्वात् कार्येण कारणानुमानं न संभवतीति प्रथमसूत्रार्थः ॥
अत्र प्रतिविधीयते द्वितीयसूत्रेण-नेति । कुतः ? प्रकृतानुमानहेतुभूतस्य नदीपूरस्य, पिपीलिकाण्डसंचारस्य, मयूरवाशितस्य च व्यभिचारिभ्यः एक देशवाससादृश्येभ्यो विलक्षणत्वात् । रोधोपघाताजातः खलु प्रवाह: एकदेशः-अल्पः, यावान् यथा च प्रभूतवर्षात् नदी प्रवहति न तथा रोधेन । वृष्टे: प्राक् पिपीलिकाण्डसंचार: यादृशः न तादृशः सार्वत्रिकः त्रासात् भवति ।
इति-ख.