________________
आलिकम् २] शेषवदनुमानम्
311 नापि विधुरप्रत्ययादिना कार्यानुत्पत्तिः। अनुत्पन्नावयवक्रियत्वविशेषणोपादानेन तद्विनाशाशङ्कनात्। क्रियातश्चोत्तरोत्तरकाणामवश्यं भावित्वात् ॥
कारणात् योग्यतानुमानं न साधु] यदपि ‘हेतुना य: समग्रेण' इत्यादिना योग्यताऽनुमान व्याख्यातम्-तदप्यसाधु-स्वभावानुमानस्य निरस्तत्वात् । लोकश्च कारणादविकलात् कार्यमेव कल्पयति, न योग्यतामित्यलं प्रसङ्गेन ॥
. [ 'शेषवत् 'पदव्याख्यानम् शेषवदिति-यत्र कार्येण कारणमनुमीयते-यथा नदीपूरेणोपरितने देशे वृष्टिरिदि। अत्रापि वृष्टिमदुपरितनदेशसंसर्गलक्षणो नदीधर्म: तद्धर्मेणैव विशिष्टन पूर्णतादिनाऽनुमीयते। वृष्टिमत्पृष्ठ देशसंसृष्टा इयं नदी - फेनिल कलुषत्वादिविशिष्टपूरोपेतत्वात्पूर्वोपलब्धैवंविधधुनीवत् ॥
अयं देशो वा वृष्टिविशिष्टदेशान्तरसंसृष्टः विशिष्टनदीपूरवत्त्वेनानुमीयत इति प्राक्तनचैयधिकरण्यादिवोद्यचक्रस्येहापि नास्ति प्रसरः॥
.. तद्विनाशाशङ्कनादिति । तेन हि विशेषणेन विरोधिसामग्रयभावः प्रदर्शित: इत्यर्थः। ननु भवता विशेषणदाने किं विरोधिसामग्री बिभ्येत ? इत्यत्राह-क्रियात इति। क्रियायाः क्षणचतुष्टयावस्थाननियमेन स्वकार्यस्य चावश्यनिर्वर्तनीयत्वेन मध्ये क्रियान्तरं न प्रविशेत्। एकस्यां हि शाखायां क्रियायामुत्पन्नायां क्रियायाश्चलनरूपत्वेन विभागपूर्वसंयोगनाशोत्तरसंयोगा: अनतिक्रमणीया एव । ननु तक्रियाया अव्यवहितपूर्वक्षणे विरोधिक्रियायां सत्यां कः प्रतीकारः ? इति चेत्, विरोषिक्रियाया भपि क्षणचतुष्टयावस्थानेन उक्तयुक्तीनां तुल्यत्वात् ॥
अनुमीयते । इत्यनन्तरं तत् शेषवदिति पूरणीयम्। 'सिद्धे हि कारणे नानुमेयं, असिद्धे खपुष्पवनानुमेयं' इत्यादिदूषणाभासं स्मरनाह-अत्रापीति। तद्धर्मेणैव-नदीधर्मेणैव ॥
विशिष्टेति। फेनिलकलुषत्वादिविशिष्टेत्यर्थः ॥