________________
340 अनुमानौविष्यम्
न्यायमञ्जरी दर्शनम् , अविनाभावस्मरणम् , परामर्शज्ञानम् , अनुमेयप्रतीतिरिति त्रिचत्वारः क्षणाः। अन्यतस्तु-क्रिया, क्रियातो विभागः, विभागात्पूर्वसंयोगनिवृत्तिः, तत उत्तरसंयोगोत्पादः, ततः पट. निष्पत्तिः। निष्पन्ने पटे क्षणान्तरे रूपादिगुणारंभः-रूपादिजन्मनि पटस्य समवायिकारणत्वात् कारणस्य कार्यादवश्यं पूर्वकालभावित्वम् , अतो निष्पन्नोऽपि नूनमेकस्मिन् क्षणे नीरूपः पटो भवतीति न तदैव प्रत्यक्ष:-ततः क्षणान्तरे रूपोत्पादात् रूपवद्दव्यमिन्द्रिय सन्निकर्षात् प्रत्यक्षं भविष्यतीति अतिबहव एने क्षणाः। अतो न कार्यप्रत्यक्षत्वम् ॥
अनुमित्युत्पत्तौ। मध्ये परामर्शाङ्गीकारपक्षे चत्वारः क्षणाः, तदनङ्गीकारे तु प्रयः। अन्यतः-पटप्रत्यक्षोत्पत्तौ । निष्पन्न इति । पटस्य निष्पत्तिमात्रादपि न तत्प्रत्यक्षं, चाक्षुषप्रत्यक्षे रूपस्य कारणत्वेन तत्र रूपोत्पादस्यावश्यकत्वात् इत्यर्थः। क्षणान्तरे-पटोत्पत्त्यनन्तरक्षणे। ननु नेदमनुभवसिद्धम् , परः उत्पन्नः, तत्र रूपं स्वनिष्पन्नमिति । तादृशस्य पटस्य केनापि कुत्राप्यदर्शनात् । उत्पन्न: खलु पटः पटत्वविशिष्ट इव रूपादि वशिष्ट एवोत्पद्येत । अत: पटोत्पत्त्यनन्तरक्षण एव रूपोत्पत्तिर्न युक्तेत्यत्राह-रूपादिजन्मनीति । अयं भाव:-कार्यसामान्यं प्रति द्रव्यं समवायिकारणं, अतश्च पटगतरूपं प्रति पट एव समवायिकारणम् । कारणत्वं च नियतपूर्ववृत्तिल्वम् । ततश्च पटरूपोत्पत्तेः पूर्वक्षगे पटेन भाव्यमेव । तादृशस्य परस्य कुत्राप्यदर्शनात' इत्युक्तिरतिरमणीया! रूपशून्यं पटं को वा पश्येत् ? ननु पूर्वक्षणे तन्तव: अनन्तरं एटः, अनन्तरं पटे रूपं, अनन्तरं पटेन्द्रियसन्निकर्षः, अनन्तरं पटप्रत्यक्ष इतीयति क्रमे तन्तुकालानन्तरं मध्यकाले पटस्याप्रत्यक्षत्वेऽऽपादिते कः समाधिः । न हि मध्ये किञ्चित्कालं पट एव न दृश्यत इत्यनुभवसिद्धमेतदिति चेत् ; एकस्मिन् क्षणे उत्पलपत्रशतभेदन इव कालस्यातिसूक्ष्मत्वेन मध्येऽन्तरालाग्रहण पपत्तेः। अत: ‘उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियं च तिष्ठति' इति सुष्टकम् । अतिबहवः -- अष्टौ। एवञ्च अनुमितिश्चतुर्थक्षणे · जायते, प्रत्यस्तु अष्टमक्षणे जायते । अनुमितिक्षणे पटस्याभावाच न तत्प्रत्यक्षापत्तिः । अयमेव न्यायः कार्यस्थले सर्वत्र द्रष्टव्य इति ॥