________________
भाह्निकम् २] पूर्ववदनुमानम्
339. • [अनुमेयस्य परोक्षत्वम् ] यदपि कार्यप्रत्यक्षत्वमाशङ्कितम् (पु. 359)-तदप्ययुक्तम्न हि वृष्टयनुमानसमय एव शिरसि सलिलकणाः पतन्तः पयोदमुक्ता दृश्यन्ते ॥
'परोक्षे लिङ्गिनि ज्ञानमनुमानम्' इति च विशेषणोपादानात् यत्र तत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति, तदुदाहरणं भविष्यति॥
अपि च अनु'प'जातावयवक्रियतयाऽनाशङ्कयमानविनाशेऽन्त्यतन्तौ जातया क्रियया पटनिष्पत्त्यनुमाने क्रियमाणे 'न पट'प्रत्यक्षता; काल'व्यवधानसम्भवात्। तथा हि-एकतस्तावदन्त्यतन्तौ क्रिया
पयोदमुक्ताः सलिलकणाः इत्यन्वयः। कालस्यातिसूक्ष्मत्वात् किञ्चिदिव व्यवधानमपि संभाव्यमेवेति भावः॥
वस्तुतस्त्वेतदाशङ्काया अवसर एव नास्तीत्याह-परोक्ष इति । यत्र तत्र-यत्र क्वचित्। यद्वा-'यत्र न तदानीमेव वृष्टिः प्रत्यक्षीभवति तत्र' इत्यन्वयः। अयमर्थः --न हि स्वशीर्षोपरि मेघं पश्यत एवेदमनुमानं-- अनुमानस्य परोक्षविषयकत्वेन दूरोंत्तादृशमेधं दृष्ट्वा वृष्टयनुमानात् । अतश्चानुमितिकाले न वृष्टिप्रत्यक्षम् ॥
ननु स्वशीर्षोपरि मेघं पश्यतोऽप्यनुमानमनुभवसिद्धम्। मार्गे गच्छन् स्वोपरि कृष्णमेघ पश्यन् , अचिरागविष्यदृष्टिमनुमिमानः शीघ्रं गच्छति, निवर्तते वा। अनुमानकाले वृष्टेरभावात् तदानीं परोक्षविषयकत्वं निर्भधम् । अतश्च अनुमानकाले कार्यप्रत्यक्षापत्तिरूपो दोषो दुरपह्नव एव । न चैतदोषः प्रथमकल्पेऽनुपदमुक्ते नास्तीति स एवास्त्विति वक्तुं शक्यं ; कार्यसमर्थस्य कारणस्य कालक्षेपायोगात्। यदा सामग्री संपूर्णा तदा तदनन्तरक्षणे कार्य भवेदेव यावत्पर्यन्तं कार्य न दृश्यते तावत् सामग्री न मिलितेत्येव वक्तव्यम् । ततश्च व्यवधानपक्षोऽपि न साधीयान् इति शङ्कायां सदृष्टान्तं तं साधयतिअपि चेत्यादिना। अन्त्यतन्तौ क्रियोत्पत्तावपि अवयव्यन्तरे पटनाशकक्रियोत्पद्येत चेत् पटस्यैव नाशः स्यादित्यत:-अनुपजाते त्यादि । एकतः
'मान-क.
पट-ख.
काले-ख.
22*