________________
388
अनुमानत्रैविश्वम्
न्यायमचरी कारणात् कार्यानुमानोपपादनम्] यत्तु-पूर्व कारणमुच्यत इति-तत्सत्यम्। पूर्वमस्यास्तीति पूर्ववत् कारणगतमुन्नतत्वादिधर्मजातमुच्यते; तदेव लिङ्गमिति प्रन्थदोषोऽपि न कश्चित् । न च कारणमात्रस्य हेतुत्वं ब्रूमः, येनास्य विधु'प्रत्ययोपनिपातादिकृतः व्यभिचारः स्यात् । अपि च विशिष्टमेव कारणं हेतुः। न च कारणविशेषो दुरवगमः ; .
गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः। रोलम्बगवलव्यालतमालमलिनत्विषः ॥ २४३ ॥ 'तुङ्गत्तटिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः। वर्षि व्यभिचरन्तीह नैवंप्रायाः पयोमुचः ॥ २४४ ॥ अनभ्युपगमे चैव'म'नुमानस्य जीवितम् ।
न स्यात् धूमविशेषाणामपि बोद्धमशक्तितः ॥ २४५॥ कारणगतेत्यादि। 'पूर्वमस्यास्ति' इत्यत्र षष्ठ्याः सम्बन्धसामान्य. मर्थः-सम्बन्धश्च धर्मधर्मिणोः। अतश्च धर्मसम्बन्धी यथा धर्मी, तथा धर्मिसम्बन्धी धर्मो भवति । तथा च विशेष्यतया धर्मिविशिष्टः धर्मः पूर्ववत्पदार्थ इति भावः । ग्रन्थ शेषः-शब्ददोषः। विधुग्प्रत्ययः--विरोधिसामग्री। स्वरूपमात्रस्य कारणत्वे हि विरोधिसामग्रीकालेऽपि तस्मात् कार्य स्यात् । वयं तु न तथा ब्रमः । कारणमात्रं न फलोपधायक, अपि तु किञ्चिद्रपविशिष्टमेवेत्यर्थः । अपि च-अपि तु॥
__विशेषस्य सुगमत्वमेवाह --गंभीरेत्यादि। आरंभः-उपक्रमः । कार्ये दृष्टान्ता:-रोलम्बादयः। गवल:-महिषशृङ्गः। तुङ्गत् इति क्विबन्त:, विज़ुभन्त्य इत्यर्थः । अस्य सर्वस्यापि पयोमुचः इति विशेष्यम् । न स्यादित्यादि । धूमावह्नयनुमानं सर्वानुभवसिद्धम् । धूमोत्पत्यनन्तरक्षणे वनिर्वाणेऽपि उपरिदेशे धूमोपलंभात् वह्नयनुमितौ जातायां तत्र वनष्टत्वेन व्यभिचारात् धूमाद्वढ्यनुमितिर्वा कथं भवेत् । अतः कारणान्तरमूलकः क्वाचिस्कव्यमिचारः न दोषावह इति कारणात् कार्यानुमानमपि भवत्येव ॥
त्या-ख.
नैव प्राय:-ख.
'मा-क.