________________
आह्निकम् २] पूर्वबदनुमानम्
337 'अग्रन्थ'शो देवानां प्रियः ! उत्पाद्यतेऽस्मादित्युत्पादो योग्यता कथ्यते। सा चात्रानुमेया; अत एव तस्याः वस्तुनोऽनन्यत्वात् स्वभावानुमानमिदमिष्यते 'स स्वभावोऽनुवर्णितः' इति ॥
[सिद्धान्ते कारणात् कार्यानुमानसमर्थनम्] अत्राहुः--सर्वमिदमविदितानुमानप्रयोगक्रमस्य दुर्मतेश्वोद्यम् । न कार्यमत्र पक्षीक्रियते। न सत्ता साध्यते। न व्यधिकरणो हेतुः प्रयुज्यते । अपि तु पयोधरा एव धर्मिणः अदरकालभाविन्या वृष्टया तद्वन्तः साध्यन्ते विशिष्टोन्नतिरूपधर्मादियोगेनेति न पूर्वकथितदोषावसरः॥
यथा अग्निमानयं धूमः बहुलपाण्डुतादिधर्मयोगित्वात्महानसावधृतधूमवदिति धूम एवाग्निमत्तयाऽनुमीयते। एवं समनन्तरोत्पादितवृष्टयोऽमी जीमूताः, सातिशयोन्नत्यादिधर्मयोगित्वात्, पूर्वोपलब्धपर्जन्यवत् इति जलधरा एव भविष्यदृष्टिमत्तयाऽनुमीयन्ते । यथाऽऽह भट्टः-(श्लो. वा. 1-1-5-47)
'तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता।
सा देशस्यानियुक्तस्य, धूमस्यान्यैश्च कल्पिता' इति ॥ देवानांप्रियः- देवानांप्रिय इति मूर्खे' इति निपात:। देवानां क्रीडासक्तत्वेन मूर्खत्वात् तत्प्रियस्यापि मूर्खत्वमिति कैय्यटः । देवानां प्रियस्य छागस्याज्ञत्वाद्वा तथा। योग्यता-सामर्थ्यम् । तस्याः-योग्यतायाः ॥
तद्वन्तः - वृष्टिमन्त:, कीदृशवृष्टिमन्त:--अदूरकालभाविन्या वृष्टया वष्टिमन्तः । अनुमानाकारस्त्वनुपदमुच्यते ॥
कार्यस्य सिद्धप्रायत्वात्-समनन्तरोत्पादितेति । पूर्वोपलब्धेति । एतत्पूर्वमनुभूतेत्यर्थः। सा देशस्येति । अत्र न्यायरत्नाकरः-'सा च देशस्यैव, धर्मित्वादित्याह---सा देशस्येति। नैय्यायिकास्तु धूममेव धर्मीकृत्य तस्यैवाग्निविशिष्टस्यानुमेयतामाहुरित्याइ-धूमस्येति ॥
ग्रन्थ-ख.
दि-क.
3 सस्य-ख.
NYAYAMANJARI